Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २३ सेप्टेम्बरमासः (हि.स.)। भारतस्य निर्वाचनायोगसम्बद्धैः सूत्रैः उक्तं यत् मतदाता-सूच्याः गहनपुनरीक्षणेन सह आयोगस्य सर्वे निर्णयाः मुख्य-निर्वाचनायुक्तस्य तथा उभयोः निर्वाचनायुक्तयोः अनुमोदनेन सर्व-सम्मत्या एव कृताः सन्ति। एषः स्पष्टीकरणः निर्वाचनायोगस्य अन्तः निर्णयसम्बद्धेषु विषयेषु कथितमतभेदस्य वार्तानां प्रकाशनानन्तरम् आगतः।
आयोगस्य सूत्राणाम् अनुसारम्, एसआईआर-सम्बद्धे अन्येषु च निर्णयेषु मुख्यनिर्वाचनायुक्तेन ज्ञानेश-कुमारेण सह निर्वाचनायुक्तयोः सुखबीरसिंह-सन्धोः तथा विवेक-जोश्योः अपि अनुमोदनम् आसीत्। निर्वाचनायोगस्य वर्तमानायां त्रिसदस्यीय-व्यवस्थायां ज्ञानेश-कुमारः मुख्य-निर्वाचनायुक्तः तथा सुखबीरसिंह-सन्धुः विवेक-जोशी च निर्वाचनायुक्तौ स्तः।
वस्तुतः एकस्मिन् आङ्ग्लभाषीय-वृत्तपत्रे प्रकाशितायां वार्तायाम् उक्तं यत् उभाभ्यां निर्वाचनायुक्ताभ्यां विगतेषु दशसु मासेषु आयोगस्य नाम्ना गृहीतेषु केषुचित् निर्णयेषु न्यूनातिन्यूनं चतुर्दशवारम् आपत्तिः प्रदर्शिता। वार्तानुसारम्, एतासु आपत्तिषु प्रपत्र-६ मध्ये परिवर्तनम्, मतदाता-सूच्याः अङ्कीयाभिलेखानां प्राप्तिः, पश्चिमबङ्गे मतदातृणां नाम-सम्बद्धानि आह्वानानि तथा गोवायां पात्रमतदातॄणां नामानि पञ्जीकरणं च इत्यादयः विषयाः सम्मिलिताः आसन्।
तदनन्तरम् आयोगसम्बद्धैः सूत्रैः एतासां वार्तानां सन्दर्भे उक्तं यत् आयोगस्य सर्वे निर्णयाः सर्वसम्मत्या एव कृताः सन्ति तथा एसआईआर-प्रक्रिया अपि त्रयाणां निर्वाचनायुक्तानाम् अनुमोदनेन एव अग्रे प्रवर्तिता।
आयोगस्य पक्षतः पूर्वमपि एसआईआर-सम्बद्धे त्रयाणाम् आयुक्तानां संयुक्त-भूमिका प्रकाशिता अस्ति। अक्टोबरमासे २०२५ तमे वर्षे एसआईआरस्य सज्जतां प्रति आयोजितस्य मुख्यनिर्वाचना-धिकारिणां सम्मेलनस्य अध्यक्षतां ज्ञानेश-कुमारः कृतवान् आसीत्। तस्मिन् सम्मेलने उभौ निर्वाचनायुक्तावपि उपस्थितौ आस्ताम्।
Hindusthan Samachar / Divya Ranjan