Enter your Email Address to subscribe to our newsletters

बीकानेरम्, २३ सेप्टेम्बरमासः (हि.स.)। बीकानेर-तकनीकी-विश्वविद्यालयस्य कुलगुरुः प्रो. अखिल-रञ्जन-गर्गः अवदत् यत् प्रारम्भिकावस्थायां स्वभाषायां पठनलेखनाभ्यां सृजनात्मकक्षमतायाः अधिकः विकासः भवति तथा च शिक्षणप्रक्रिया सहजतरा भवति। सः अवदत् यत् चीन-जपान-सदृशैः देशैः स्वभाषासु ज्ञानस्य, अनुसन्धानस्य, नवोन्मेषस्य च प्रोत्साहनं कृतम् अस्ति।
राष्ट्रीय-उष्ट्र-अनुसन्धान-केन्द्रे, बीकानेरम् इत्यत्र १० सेप्टेम्बरमासतः आयोजितस्य हिन्दी-पखवाडस्य समापन-पुरस्कारवितरण-समारोहं सम्बोधयन् गर्गः अवदत् यत् कृत्रिमबुद्धिमत्तायाः वर्धमान-प्रभावस्य मध्ये अग्रिमकाले हिन्दी-भाषायाम् एआई-आधारित-प्रौद्योगिकीनां प्रयोगः अधिकं प्रभावी भविष्यति। सः संवादे तथा विभागीयकार्येषु राजभाषायाः हिन्दी-भाषायाः अधिकाधिकप्रयोगाय संकल्पं कर्तुम् आह्वानं कृतवान्।
कार्यक्रमस्य अध्यक्षतां कुर्वन् केन्द्रस्य निदेशकः डॉ. अनिल-कुमार-पूनिया अवदत् यत् ‘रिफॉर्म-उत्सवस्य’ अन्तर्गतं आयोजितं हिन्दी-पखवाडं राजभाषायाः प्रगतिशीलप्रयोगस्य दिशि एकः प्रयत्न: अस्ति। सः अवदत् यत् भाषा अनुसन्धान-संस्थानानां, कृषकाणां तथा अन्यहित-धारकाणां मध्ये संवादस्य महत्त्वपूर्णं माध्यमम् अस्ति। अनुसन्धान-कार्येषु कार्यालयीयकार्येषु च हिन्दी-भाषायाः अधिकाधिकप्रयोगेन अनु-सन्धानस्य लाभः समाजं प्रति प्रभावीरूपेण प्रेषयितुं शक्यते।
केन्द्रस्य राजभाषा-नोडल-अधिकारी डॉ. राकेश-रञ्जनः हिन्दी-पखवाडस्य अवधौ आयोजितानां प्रतियोगितानां तथा केन्द्रे राजभाषायाः प्रगतिशीलप्रयोगसम्बद्धानां उपलब्धिनां विषये सूचनां प्रदत्तवान्।
समारोहे हिन्दी-निबन्धप्रतियोगितायाः, हिन्दी-टङ्कणप्रतियोगितायाः तथा हिन्दी-भाषणप्रतियोगितायाः विजेतृभ्यः पुरस्काराः प्रदत्ताः। निबन्धप्रतियोगितायां डॉ. श्याम-सुन्दर-चौधरी, टङ्कणप्रतियोगितायाम् अखिल-ठुकरालः, भाषणप्रतियोगितायां च डॉ. राजेन्द्र-कुमारः प्रथमस्थानं प्राप्तवन्तः। युवव्यावसायिकवर्गस्य विभिन्न-प्रतियोगितानां विजेतारः अपि सम्मानिताः।
Hindusthan Samachar / Divya Ranjan