Enter your Email Address to subscribe to our newsletters




बङ्गाईगावम् (असम), २३ सेप्टेम्बरमासः (हि.स.)। नगर-राजभाषा-कार्यान्वयन-समित्याः, बङ्गाईगावस्य तत्त्वावधानेन बङ्गाईगाव-परिष्करणागारेण बुधवासरे नवबङ्गाईगावस्थिते केन्द्रीयविद्यालये ‘सृजनात्मक-हिन्दी-लेखनम्’ इति विषये कार्यशालायाः हिन्दी-पुस्तकप्रदर्शन्याश्च आयोजनं कृतम्। कार्यक्रमस्य उद्देश्यम् आसीत् यत् विद्यार्थिषु हिन्दीभाषायाः प्रति रुचिः वर्धेत, तेषां सृजनात्मकाभिव्यक्तिः लेखनकौशलं साहित्यिकचेतना च प्रोत्साहिता भवेत्।
कार्यक्रमस्य शुभारम्भः नवबङ्गाईगाव-स्थितस्य केन्द्रीयविद्यालयस्य प्राचार्यस्य विशालखरेवर्यस्य मार्गदर्शनेन अभवत्। अस्मिन् अवसरे विद्यार्थिभ्यः शिक्षकेभ्यश्च सम्बोधयन् सः अवदत् यत् भाषा केवलं विचाराणाम् अभिव्यक्तेः माध्यमं न, अपि तु अस्माकं संवेदनानां कल्पनानां सृजना-त्मकतायाश्च स्वरूपदात्री सशक्तं साधनम् अस्ति। सः विद्यार्थिभ्यः नियमितरूपेण हिन्दी-साहित्यस्य पठनं कर्तुं तथा स्वकल्पनानां लेखनमाध्यमेन अभिव्यक्तिं कर्तुम् आह्वानम् अकरोत्।
कार्यशालायाः मुख्यसंकायसदस्यः युवा-कविः रङ्गकर्मी च मो. रहमानः विद्यार्थिनः सृजनात्मकलेखनस्य विविधाभिः विधाभिः परिचितान् अकारयत्। सः कथा, कविता, संस्मरणं, संवादः अन्याश्च सृजनात्मक-विधयः इत्येतेषु लेखनस्य मूलतत्त्वानि रोचकतया संवादात्मकरीत्या च विवृण्वन् चर्चितवान्। सः अवदत् यत् उत्तमरचनायै कल्पनाशीलतया सह निरन्तराध्ययनं संवेदनशीलदृष्टिः स्वपरितः घटितानां घटनानां च अवगमनस्य क्षमता आवश्यकी अस्ति। कार्यशालायाः समये विद्यार्थिभ्यः लघुलेखनाभ्यासाः अपि कारिताः, येन ते स्वस्य सृजनात्मकप्रतिभाम् अभि-व्यक्तवन्तः।
कार्यक्रमस्य प्रमुखम् आकर्षणं हिन्दी-पुस्तकप्रदर्शनी आसीत्। प्रदर्शन्याम् हिन्दी-साहित्यस्य, कवितायाः, कथायाः, बालसाहित्यस्य, ज्ञान-विज्ञानस्य विविध-विषयाणां च सम्बद्धानि पुस्तकानि प्रदर्शितानि। पुस्तकप्रदर्शिन्याः आयोजने जयपुरस्य ‘हिन्दी-स्थान-प्रकाशन’ इत्यस्य सहयोगः आसीत्। विद्यार्थिभिः प्रदर्शन्यां विशेषा रुचिः प्रदर्शिता तथा विविध-पुस्तकानां विषये सूचनाः प्राप्ताः। आयोजकैः उक्तं यत् विद्यार्थिषु पुस्तक-पठनस्य अभ्यासनिर्माणं तेषां बौद्धिकस्य सृजनात्मकस्य च विकासस्य दृष्ट्या अत्यन्तं महत्त्वपूर्णम् अस्ति।
अस्मिन् अवसरे बङ्गाईगाव-परिष्करणा-गारस्य पक्षतः हिन्दीभाषायाः साहित्यं च प्रति विद्यार्थिनां रुचेः वर्धनाय तथा विद्यालयेषु राजभाषा-हिन्द्याः प्रचारप्रसाराय क्रियमाणानां प्रयासानां विषये सूचनाः अपि प्रदत्ताः।
कार्यक्रमस्य माध्यमेन विद्यार्थिभ्यः सन्देशः प्रदत्तः यत् पठनं चिन्तनं लेखनं च सृजनात्मकव्यक्तित्वस्य विकासस्य महत्त्वपूर्णाः श्रृंखला: सन्ति। कार्यशालया पुस्तकप्रदर्शिन्या च विद्यार्थिभ्यः हिन्दी-साहित्येन सह सम्बद्धतां स्थापयितुं तथा स्वकल्पनाशक्तिं लेखनमाध्यमेन अभिव्यक्तुं सार्थकः अवसरः प्रदत्तः।
Hindusthan Samachar / Divya Ranjan