आईआईटी-जोधपुरे भाषासु निहितज्ञानस्य, व्याकरणस्य, संस्कृतेः मानवमस्तिष्कस्य च सम्बन्धानाम् अध्ययनम्
जोधपुरम्, २३ सेप्टेम्बरमासः (हि.स.)। भाषा केवलं संवादस्य माध्यमं न, अपितु कस्यचित् समुदायस्य परम्पराणां, सामाजिकजीवनस्य, स्थानीयज्ञानस्य विश्वं प्रति दृष्टिकोणस्य च वंशेभ्यः संरक्षणस्य माध्यममपि अस्ति। एतादृशेन दृष्टिकोणेन भारतीयप्रौद्योगिकीसंस्थान
jodhpur


जोधपुरम्, २३ सेप्टेम्बरमासः (हि.स.)। भाषा केवलं संवादस्य माध्यमं न, अपितु कस्यचित् समुदायस्य परम्पराणां, सामाजिकजीवनस्य, स्थानीयज्ञानस्य विश्वं प्रति दृष्टिकोणस्य च वंशेभ्यः संरक्षणस्य माध्यममपि अस्ति। एतादृशेन दृष्टिकोणेन भारतीयप्रौद्योगिकीसंस्थानस्य जोधपुरस्य लिबरल-आर्ट्स्-विद्यालयस्य सहायक-प्राध्यापकः डॉ. गुरूजेगन्-मुरुगेसन् अल्पप्रचलितासु भाषासु अनुसन्धानं कुर्वन् अस्ति।

तस्य अनुसन्धानकार्ये क्षेत्राध्ययनं, भाषातथ्यकरणं, व्याकरणस्य अध्ययनेन च सह भाषायाः संरक्षणे पुनरुज्जीवने च विशेषं ध्यानं दीयते। सम्प्रति विश्वे प्रायः ७,१६४ भाषाः भाष्यन्ते, यासु प्रायः ४४ प्रतिशतं भाषाः ताः सन्ति, याः सहस्रात् अपि न्यूनैः जनैः भाष्यन्ते। अतः एतासां भाषाभि: सह तासु संरक्षितस्य स्थानीयज्ञानस्य सांस्कृतिकपरम्पराया: च लुप्तेः संकटमपि वर्तते।

डॉ. मुरुगेसन् अवदत् यत् कस्याश्चित् भाषायाः सङ्कटे पतितायां केवलं भाषा एव प्रभाविता न भवति, अपितु तस्यां वंशै: सम्बद्धं सांस्कृतिकज्ञानं जीवनयापनस्य पद्धतयश्च अपि प्रभाविताः भवन्ति। अतः तस्य क्षेत्राध्ययनं भाषायाः अभिलेखनस्य सह तस्य ज्ञानस्य अवगमनेऽपि केन्द्रितम् अस्ति, यत् समुदायः स्वभाषामाध्यमेन अग्रे प्रेषयति।

अनुसन्धानस्य एकः महत्त्वपूर्णः भागः राजस्थानस्य ओसियां-क्षेत्रे भीलसमुदायेन सह क्रियमाणस्य क्षेत्राध्ययनस्य सम्बन्धी अस्ति। थारस्य मरुभूमीयपरिवेशे निवसन्तः समुदायाः कठिनजलवायु-परिस्थितीनाम् अनुरूपं जीवनयापनस्य विशिष्टाः पद्धतीः विकसितवन्तः। तासु गृहाणां निर्माणं, भोजनं, परिधानं सीमितजलसंसाधनानां विवेकपूर्णोपयोगेन सम्बद्धाः पारम्परिकाः प्रथाश्च अन्तर्भवन्ति।

अनुसन्धातारः एतत् ज्ञातुं प्रयतन्ते यत् एतत् स्थानीयज्ञानं समुदायस्य भाषया कथं सम्बद्धम् अस्ति तथा च नूतनपीढ्यां भाषायाः न्यूनप्रयोगेन अस्य ज्ञानस्य हस्तान्तरणे कः प्रभावः भवति। अनुसन्धानदलस्य सदस्याः प्रत्येकस्मिन् सत्रे क्षेत्रभ्रमणं कृत्वा भाषासम्बद्धां सूचनां सांस्कृतिकज्ञानं च अभिलिखन्ति।

अनुसन्धानस्य द्वितीयं प्रमुखं क्षेत्रं झारखण्डस्य मुण्डासमुदायैः भाष्यमाणायाः मुण्डारीभाषायाः सम्बन्धी अस्ति। इयं भाषा ऑस्ट्रो-एशियाटिक-भाषापरिवारस्य अन्तर्भवति। अनुसन्धानकाले सङ्कलित-दत्तांशानां विश्लेषणे मुण्डारीभाषायाः एकः विशिष्टः दुर्लभश्च सङ्ख्याप्रणालीप्रकारः प्रकाशं गतः।

अस्याः विशेषतायाः अध्ययनेन विभिन्नासु भाषासु व्याकरणिकसंरचनाः कथं विकसिताः भवन्ति इति ज्ञातुं नूतनाः अवसराः प्राप्ताः। अनुसन्धातारः एतदपि अध्ययन्ति यत् एतादृशी व्याकरणव्यवस्था दुर्लभा किमर्थम् अस्ति तथा च मुण्डारीभाषा अन्याभ्यः भाषाभ्यः कथं भिन्नरूपेण व्यवहरति। अनेन मानव-भाषायाः संरचनां विकासं च अवगन्तुं प्रवर्तमाने सैद्धान्तिकभाषाविज्ञानेऽपि महत्त्वपूर्णाः सूचनाः प्राप्यन्ते।

अनुसन्धानस्य तृतीयं क्षेत्रं प्रवासीसमुदायेषु विरासतभाषासु केन्द्रितम् अस्ति। सहयोगात्मक-अनुसन्धानपरियोजनायाः अन्तर्गतं स्विट्जरलैण्डे द्वितीयवंशस्य प्रवासीसमुदायस्य मध्ये तमिलभाषायाः अध्ययनं क्रियते। अत्र परिवारेषु तमिलभाषायाः प्रयोगः भवति, यदा तु व्यापकसामाजिकवातावरणे स्विस-जर्मन् तथा फ्रेञ्च् भाषयोः प्रयोगः अधिकः अस्ति। अनुसन्धाने एतत् ज्ञातुं प्रयत्नः क्रियते यत् बहुभाषिकवातावरणे पालिताः वर्धिताश्च बालकाः युवजनाश्च धरोहरभाषायाः विकासेन प्रयोगेन च कथं प्रभाविताः भवन्ति।

इयं परियोजना स्विट्जरलैण्डदेशस्य लोजान्-विश्वविद्यालयस्य प्रो. अनिता-ऑयर इत्यस्याः सहयोगेन सञ्चाल्यते तथा च स्विस-नेशनल-साइन्स-फाउण्डेशन इत्यस्य भारतीय-सामाजिक-विज्ञान-अनु-सन्धान-परिषदः च समर्थनं प्राप्तवती अस्ति। एतेषां अनुसन्धानक्षेत्राणां माध्यमेन आईआईटी-जोधपुरः भाषायाः विकासं, तस्यां संरक्षितं ज्ञानं तथा भाषा-समाज-संस्कृत्योः मध्यवर्ती सम्बन्धांश्च अवगन्तुं दिशि अध्ययनं कुर्वन् अस्ति।

/ अंशु गुप्ता