राष्ट्रकवेः रामधारीसिंहदिनकरस्य ११८तम्याः जयन्ती आयोजिता
भागलपुरम्, २३ सेप्टेम्बरमासः (हि.स.)। भागलपुरस्य मन्दरोजास्थिते प्रगति-शिक्षण-संस्थाने बुधवासरे ‘साहित्य-सफर’ संस्थायाः तत्त्वावधानेन राष्ट्रकवेः रामधारीसिंहदिनकरस्य ११८तम्याः जयन्ती हर्षोल्लासेन आयोजिता। कार्यक्रमस्य अध्यक्षतां जगतरामसाह-कर्णपुर्
रामधारी सिंह दिनकर


भागलपुरम्, २३ सेप्टेम्बरमासः (हि.स.)। भागलपुरस्य मन्दरोजास्थिते प्रगति-शिक्षण-संस्थाने बुधवासरे ‘साहित्य-सफर’ संस्थायाः तत्त्वावधानेन राष्ट्रकवेः रामधारीसिंहदिनकरस्य ११८तम्याः जयन्ती हर्षोल्लासेन आयोजिता।

कार्यक्रमस्य अध्यक्षतां जगतरामसाह-कर्णपुर्यः अकरोत्। साहित्यकारः रञ्जन-कुमाररायः दिनकरस्य चित्रे माल्यार्पणं कृत्वा कार्यक्रमस्य उद्घाटनम् अकरोत्। अस्मिन् अवसरे उपस्थितैः कविभिः बुद्धिजीविभिश्च राष्ट्रकवेः चित्रे पुष्पाणि समर्प्य भावपूर्णा श्रद्धाञ्जलिः अर्पिता।

मुख्यवक्ता रञ्जनकुमाररायः स्वसम्बोधने दिनकरस्य भागलपुरेण सह गभीरं सम्बन्धं रेखाङ्कितवान्। सः अवदत्— “षष्टिदशके दिनकरः भागलपुरविश्वविद्यालयस्य कुल-पतिरूपेण सेवाम् अकरोत्। एषा भूमिः तस्य साहित्यसाधनायाः भूमिरासीत्, यत्र सः स्वस्य प्रसिद्धस्य ‘हिमालय’ इति काव्यस्य कतिपयाः महत्त्वपूर्णाः पङ्क्तीः अलिखत्।”

मुख्यातिथिः प्रेमकुमारप्रियः दिनकरं आधुनिकहिन्दीसाहित्यस्य सशक्तं रचना-कारं वर्णयन् अवदत् यत् सः ओजसः राष्ट्रभक्तेश्च साक्षात् कविरासीत्। तस्य ‘कुरुक्षेत्रम्’, ‘उर्वशी’, ‘परशुरामस्य प्रतीक्षा’ इत्यादयः काव्यग्रन्थाः तथा गद्यरचना ‘संस्कृतेः चत्वारि अध्यायाः’ हिन्दी-साहित्यस्य अमूल्यानि धरोहराणि सन्ति।

स्वकीयाध्यक्षीयभाषणे जगतराम-साहकर्णपुर्यः अवदत् यत् दिनकरः आधुनिककाले वीररसस्य अद्वितीयः कविरासीत्। स्वातन्त्र्यप्राप्तेः पूर्वं सः विद्रोहीकविरूपेण उदितः, स्वातन्त्र्य-प्राप्तेः अनन्तरं च राष्ट्रकविरूपेण प्रतिष्ठितः। हिन्दी-साहित्ये तस्य अप्रतिमयोगदानाय सः पद्मभूषणेन, साहित्य-अकादमी-पुरस्कारेण भारतीय-ज्ञानपीठ-पुरस्कारेण च सम्मानितः। स्वस्य लेखनशक्त्या सः सर्वदा अमरः स्थास्यति।

Hindusthan Samachar / Divya Ranjan