Enter your Email Address to subscribe to our newsletters


कोलकाता, २३ सेप्टेम्बरमासः (हि.स.)। पश्चिमबङ्गाल-राज्यसङ्गीत-अकादम्याः तत्त्वावधाने बुधवासरे त्रिदिवसीयायाः ‘कीर्तन-कार्यशालायाः’ शुभारम्भः अभवत्। कोलकातानगरस्य टॉलीगञ्जस्थे पश्चिमबङ्गाल-राज्यसङ्गीत-अकादम्याः भवने आयोजिता कार्यशाला शुक्रवासर-पर्यन्तं प्रचलिष्यति। कार्यशालायाः उद्घाटनं राज्यस्य सूचनासंस्कृतिविभागस्य पर्यटनविभागस्य च राज्यमन्त्रिणी पूर्णिमाचक्रवर्तिना कृतम्।
कार्यशालायाः शुभारम्भावसरे राज्य-मन्त्रिणी पूर्णिमाचक्रवर्ती अवदत् यत् कीर्तनं बङ्गालस्य साहित्यस्य सङ्गीतस्य च इतिहासेन सह अभिन्नरूपेण सम्बद्धम् अस्ति। अस्मिन् सन्दर्भे सा कोलकातानगरे नगरकीर्तने भागं गृहीतवत्याः स्वानुभवानपि सहभागं कृतवती। सा स्वसम्बोधने शुक्रवासरात् प्रारभ्यमाणायाः त्रिदिवसीयायाः गौडीयनृत्यकार्यशालायाः घोषणामपि कृतवती। सा अवदत् यत् बङ्गालस्य परम्पराम् अग्रे नेतुं युवासमाजः मार्गदर्शकस्य भूमिकां निर्वहति। बुधवासरे आयोजिता कीर्तनकार्यशालायां युवानां उत्साहपूर्णसहभागितायाः सा प्रशंसाम् अकरोत्। बङ्गालस्य विरासतं भारतसहितं विश्वमञ्चं प्रति प्रापयितुं सन्देशं दत्त्वा सा कार्यशालायाः सफलतायै शुभकामनाम् अर्पितवती।
रवीन्द्रभारतीविश्वविद्यालयस्य पदावली-कीर्तनविभागस्य प्रमुखा प्रोफेसर् डॉ. कङ्कनामित्रा स्वसम्बोधने बङ्गालस्य पदावलीकीर्तनस्य प्रायः सहस्रवर्ष-पुरातनायाः परम्परायाः उल्लेखम् अकरोत्। सा रवीन्द्रभारतीविश्वविद्यालये पदावली-कीर्तनस्य स्नातकोत्तरविभागस्य विद्यार्थिभ्यः विशेषछात्रवृत्तेः अथवा आर्थिकसहायतायाः व्यवस्थां कर्तुम् आग्रहं कृतवती। उल्लेखनीयं यत् कार्यशालायां कुलं त्रिंशत् विद्यार्थिन: भागं गृह्णन्ति।
Hindusthan Samachar / Divya Ranjan