सांसदः बृजमोहन-अग्रवालः अद्य पञ्चाशत्सहस्राधिकैः विद्यार्थिभिः सह ‘जेन-जी’ युवाभिः संवादं करिष्यति
रायपुरम्, २३ सेप्टेम्बरमासः (हि.स.)। रायपुर-लोकसभाक्षेत्रस्य सांसदः बृजमोहन-अग्रवालः अद्य बुधवासरे कृषि-मण्डपमे आयोजिते ‘नवभारत-उत्सवे’ जेन-जी युवभिः सह प्रत्यक्षं संवादं करिष्यति। मोदी-सर्वकारस्य द्वादशवर्षाणां पूर्णतायाः उपलक्ष्ये आयोजिते अस्मिन
सांसद बृजमोहन अग्रवाल फाइल फाेटाे


रायपुरम्, २३ सेप्टेम्बरमासः (हि.स.)। रायपुर-लोकसभाक्षेत्रस्य सांसदः बृजमोहन-अग्रवालः अद्य बुधवासरे कृषि-मण्डपमे आयोजिते ‘नवभारत-उत्सवे’ जेन-जी युवभिः सह प्रत्यक्षं संवादं करिष्यति।

मोदी-सर्वकारस्य द्वादशवर्षाणां पूर्णतायाः उपलक्ष्ये आयोजिते अस्मिन् उत्सवे शताधिकेषु महाविद्यालयेषु पञ्चाशत्सह-स्राधिकाः विद्यार्थिनः विविधासु प्रति-योगितासु भागं गृहीतवन्तः। कार्यक्रमस्य अवधौ प्रतियोगितासु विजेतृभ्यः विद्यार्थिभ्यः सम्मानमपि प्रदास्यते।

उत्सवे विभिन्नमहाविद्यालयानां विद्यार्थिनः देशभक्तिगीताधारिताः मनोहराः सांस्कृ-तिकाः प्रस्तुतयः अपि प्रदर्शयिष्यन्ति। कार्यक्रमे बहुसंख्यकाः विद्यार्थिनः, शिक्षाविदः गणमान्यनागरिकाश्च उपस्थिताः भविष्यन्ति।

Hindusthan Samachar / Divya Ranjan