दीक्षान्तशपथस्य आजीवनं पालनं कुर्वन्तु विद्यार्थिन: - राज्यपालः पटेलः
मानसरोवर-ग्लोबल-विश्वविद्यालयस्य दीक्षान्तसमारोहे राज्यपालेन भजन-गायकाय अनूप-जलोटाय क्रिकेट-क्रीडकाय रजत-पाटीदाराय च मानद-उपाधिः प्रदत्ता भोपालम्, २३ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य राज्यपालः मंगुभाईपटेलः अवदत् यत् दीक्षितविद्यार्थिनां भावि-
दीक्षांत समारोह को संबोधित करते हुए राज्यपाल पटेल


मानसरोवर-ग्लोबल-विश्वविद्यालयस्य दीक्षान्तसमारोहे राज्यपालेन भजन-गायकाय अनूप-जलोटाय क्रिकेट-क्रीडकाय रजत-पाटीदाराय च मानद-उपाधिः प्रदत्ता

भोपालम्, २३ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य राज्यपालः मंगुभाईपटेलः अवदत् यत् दीक्षितविद्यार्थिनां भावि-जीवनस्य वास्तविकः उपदेशः तेषां दीक्षान्तशपथे एव निहितः अस्ति। अतः दीक्षितविद्यार्थिभिः दीक्षान्तशपथस्य केवलम् एकदिने न, अपितु आजीवनं पालनं करणीयम्। ते सर्वदा विनम्राः भवन्तु, कदापि अभिमानं न कुर्वन्तु। मातापित्रोः, गुरूणां विश्वविद्यालयात् प्राप्तानां शिक्षासंस्काराणां च माध्यमेन जीवने प्रगतिं प्राप्नुयुः।

राज्यपालः पटेलः बुधवासरे सीहोरस्थे मानसरोवर-ग्लोबल-विश्वविद्यालये आयोजिते “दीक्षान्तसमारोहे स्नातक-दिवसे” च कार्यक्रमे सम्बोधनं कुर्वन् आसीत्। सः अवदत् यत् दीक्षिताः चिकित्सकाः प्रतिक्षणं पीडितमानवतायाः सेवायै संकल्पं धारयन्तु। रोगिभिः सह अत्यन्तम् आत्मीयतया व्यवहरन्तु। तेषां समस्याः धैर्येण शृण्वन्तु तथा उपचारं कुर्वन्तु।

अस्मिन् अवसरे राज्यपालः पटेलः प्रसिद्धाय भजनगायकाय पद्मश्री-अनूप-जलोटाय मध्यप्रदेशस्य अन्तर्राष्ट्रिय-क्रिकेट-क्रीडकाय रजत-पाटीदाराय च मानदोपाधिं प्रदत्तवान्। विश्वविद्यालयस्य दीक्षितविद्यार्थिभ्यः उपाधीः पदकानि च प्रदत्तवान् तथा सर्वेभ्यः भाविजीवनस्य कृते शुभकामनाः प्रदत्तवान्। कुशाभाऊ-ठाकरे-सभागारे आयोजिते अस्मिन् समारोहे उच्चशिक्षामन्त्री इन्दर-सिंह-परमारः अपि उपस्थितः आसीत्।

सेवासंकल्पसम्बद्धानां गतिविधिनां सततम् आयोजनं कुर्वन्तु

राज्यपालः पटेलः अवदत् यत् विश्वविद्यालयैः विद्यार्थिषु सेवासंस्कारस्य विकासाय विशेषप्रयासाः करणीयाः। तेभ्यः वञ्चितवर्गाणां कल्याणाय प्रेरणा दातव्या। विशेषावसरेषु रक्तदानशिबिराणि, सामाजिकसहभागितायाः आधारेण विविधाः गतिविधयः च आयोजनीयाः। संस्थायाः माध्यमेन दूरस्थेषु ग्रामीणक्षेत्रेषु च स्थितानां प्रतिभाशालिनां बालकानां हिताय आवश्यकाः उपायाः करणीयाः। सः विद्यार्थिभ्यः अवदत् यत् स्वज्ञानप्रतिभाभ्यां समाजस्य राष्ट्रस्य च निर्माणाय कार्यं कुर्वन्तु। विकसितभारतस्य संकल्पस्य साकारीकरणे योगदानं ददतु।

उच्चशिक्षामन्त्री इन्दर-सिंह-परमारः अवदत् यत् शिक्षा व्यक्तेः सर्वाङ्गीण-विकासं करोति तथा जागरूकान् आदर्शान् च नागरिकान् निर्माति। सर्वे उपाधिप्राप्ताः विद्यार्थी समाजस्य देशस्य च कल्याणाय सततं चिन्तनशीलाः प्रयत्नशीलाः च भवन्तु।

मध्यप्रदेश-निजी-विश्वविद्यालय-नियामक-आयोगस्य अध्यक्षः डॉ. खेमसिंह-डेहरियाः अवदत् यत् दीक्षितविद्यार्थिनः प्राप्तज्ञानेन स्वग्रामस्य, प्रदेशस्य, संस्थानस्य देशस्य च नाम उज्ज्वलं कुर्वन्तु। पद्मश्री-अनूप-जलोटः विद्यार्थिभ्यः जीवने प्राप्तासु प्रत्येकं सफलतासु सर्वदा विनम्राः भवितुं परामर्शं दत्तवान्। अन्तर्राष्ट्रिय-क्रिकेट-क्रीडकः रजत-पाटीदारः दीक्षितविद्यार्थिभ्यः प्रत्येकं कार्यं पूर्णमनोयोगेन कर्तुं स्वक्षेत्रे च निरन्तरं प्रगतिं कर्तुं प्रेरणां दत्तवान्।

राज्यपालः पटेलः मातुः सरस्वत्याः प्रतिमायाः भगवत: धन्वन्तरेः चित्रस्य च पुरतः दीपप्रज्वालनं कृत्वा समारोहस्य शुभारम्भं कृतवान्। राज्यपालस्य विश्वविद्यालयस्य कुलाधिपतिः मञ्जुला-तिवारी पुष्पगुच्छं पादपं च समर्प्य स्वागतं कृतवती। स्मृतिचिह्नं समर्प्य अभिनन्दनं कृतवती। स्वागतभाषणं प्रो. चान्सलरः गौरव-तिवारी दत्तवान्। उपकुलपतिः ए.एस. यादवः वार्षिकप्रतिवेदनं प्रस्तुतवान्। ए.एस. राजपूतः विद्यार्थिभ्यः दीक्षान्तशपथं कारितवान्। कार्यक्रमे विभिन्न-विश्वविद्यालयानां कुलगुरवः, पूर्वकुलगुरवः, छात्राः छात्र्यश्च तेषां परिजनाश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan