Enter your Email Address to subscribe to our newsletters

उज्जयिनी, २३ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिनी-स्थिते विश्वप्रसिद्धे श्रीमहाकालेश्वर-मन्दिरे बुधवासरे प्रातः भाद्रपदशुक्लपक्षस्य द्वादश्यां तिथौ भगवत: महाकालस्य भस्मारती विधिविधानपूर्वकं विशेषशृङ्गारेण च सम्पन्ना। भस्मारत्याः अवधौ बहुसंख्याकाः श्रद्धालवः बाबा महाकालस्य दर्शनं कृतवन्तः। गर्भगृहात् आरभ्य नन्दीमण्डपपर्यन्तं ‘हर-हर महादेव’, ‘बाबा महाकाल’ इत्यादिभिः जयघोषैः मन्दिरपरिसरः गुञ्जितः।
मन्दिरस्य कपाटानां उद्घाटनात् पूर्वं वीरभद्रजीं प्रणम्य स्वस्तिवाचनं कृतम्। तेषाम् आज्ञां प्राप्य रजतद्वारम् उद्घाटितम्। गर्भगृहस्य पटोद्घाटने सति पुजारिभिः भगवत: महाकालस्य पूजनं कृत्वा पूर्वशृङ्गारम् अपसार्य जलाभिषेकः कृतः। ततः क्षीरं, दधि, घृतं, शर्करा, मधु फलरसाश्च मिश्रितेन पञ्चामृतेन अभिषेक-पूजनं कृतम्। शुष्कफलैः, फलैः मिष्टान्नैश्च नैवेद्यं समर्प्य कर्पूरारार्तिकी कृता।
भस्मार्पणानन्तरं राजस्वरूपे दर्शनम्
भस्मारत्याः प्रक्रियायां भगवते महाकालाय भस्म समर्पितम्। भस्मार्पणात् पूर्वं प्रथमघण्टालवादनं कृत्वा हरिओमस्य जलं समर्पितम् तथा मन्त्रघोषस्य मध्ये भगवान् महाकालस्य ध्यानं कृतम्। ततः ज्योतिर्लिङ्गं वस्त्रेण आच्छाद्य तस्मिन् भस्म लेपितम्। महा-निर्वाणी-अखाडातः भगवते महाकालाय भस्म समर्पितम्।
भस्मार्पणानन्तरं बाबा महाकालस्य भाङ्गेन, चन्दनेन, सिन्दूरेण च विशेष-शृङ्गारः कृतः। ततः रजतस्य शेषनाग-मुकुटेन, रजतमुण्डमालयाः, रुद्राक्षमालयाः सुगन्धितपुष्पमालाभिश्च ते अलङ्कृताः। आभरणैः विभूषितस्य भगवत: महा-कालस्य राजस्वरूपं श्रद्धालूनां कृते विशेषाकर्षणस्य केन्द्रम् अभवत्।
नन्दिनः कर्णे निवेदिताः मनोकामनाः
भस्मारत्यां सम्मिलिताः श्रद्धालवः बाबा महाकालस्य दर्शनैः सह नन्दी-महाराजस्यापि पूजनं कृतवन्तः। नन्दीजीयस्य स्नानं, ध्यानं पूजनं च कृतम्। श्रद्धालुभिः नन्दिनः कर्णे स्वकीयाः मनोकामनाः निवेदिताः तथा तासां पूर्तये प्रार्थना कृता। अस्मिन् समये मन्दिरपरिसरः बाबा महाकालस्य जयघोषैः गुञ्जितः।
मान्यता अस्ति यत् भस्मार्पणानन्तरं भगवान् महाकालः निराकाररूपात् साकाररूपं धृत्वा भक्तेभ्यः दर्शनं ददाति। एतादृश्या आस्थया श्रद्धालवः भस्मारा-र्तिक्यां सम्मिलिताः भूत्वा बाबा महाकालस्य आशीर्वादं प्राप्नुवन्ति।
Hindusthan Samachar / Divya Ranjan