Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २३ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे राष्ट्रकविना रामधारीसिंहदिनकरेण सम्बद्धे जयन्तीदिने तस्मै श्रद्धाञ्जलिम् अर्पितवान्। सः अवदत् यत् जनचेतनायाः राष्ट्रियगौरवस्य च भावनाभिः ओतप्रोताः दिनकरस्य ओजस्विन्यः कविताः अद्यापि देशवासिनां हृदयेषु शौर्यं तेजः आत्मगौरवं च सञ्चारयन्ति।
प्रधानमन्त्री मोदी सामाजिक-माध्यमे ‘एक्स’ इत्यत्र प्रकाशितेन सन्देशेन अवदत् यत् राष्ट्रकवि-दिनकरस्य रचनाः साहित्यं समृद्धं कर्तुं सहैव देशवासिषु मातृभूमिं प्रति भक्तिं राष्ट्रभावनां च जागरयन्ति। तस्य विराट् व्यक्तित्वं कालजयी साहित्यं च अग्रिमवंशानां मार्गदर्शनं निरन्तरं करिष्यति।
प्रधानमन्त्री अवदत्— “राष्ट्रकविनः रामधारीसिंहदिनकरस्य जयन्त्यां तस्मै मम शतशः नमनम्। जनचेतनायाः राष्ट्रियगौरवस्य च भावैः परिपूर्णाः तस्य ओजस्विन्यः कविताः अद्यापि देशवासिनां हृदयेषु शौर्यं तेजः आत्मगौरवं च सञ्चारयन्ति।”
प्रधानमन्त्री अवदत् यत् दिनकरस्य रचनाः साहित्यं समृद्धं करणेन सह जनानामपि प्रेरणां ददति। तस्य विराट् व्यक्तित्वं कालजयी रचनाश्च युगयुगान्तरं भारतवासिनां मार्गदर्शनं कुर्वन्ति।
उल्लेखनीयं यत् रामधारीसिंहदिनकरः हिन्दी-साहित्यस्य प्रमुखेषु कविषु परिगण्यते। तस्य रचनासु राष्ट्रभावनायाः, जनचेतनायाः, वीरतायाः सामाजिक-सरोकाराणां च प्रभावी अभिव्यक्तिः दृश्यते।
Hindusthan Samachar / Divya Ranjan