Enter your Email Address to subscribe to our newsletters

जौनपुरम्, 23 सितंबरमासः (हि.स.)। उत्तरप्रदेशस्य जौनपुरजनपदे श्रीचित्रगुप्तधर्मशालायां मङ्गलवासरे विलम्बितरात्रौ भारतीयजनतापार्टी इत्यस्य संस्थापकसदस्यः, सङ्गतपङ्गत् सङ्घटनस्य संस्थापकाध्यक्षः पूर्वसांसद् आरकेसिन्हा ‘बाबूजी’ इत्यस्य जन्मदिवसः हर्षोल्लासेन आचरितः। रूहट्टास्थिते भगवान् चित्रगुप्तस्य मन्दिरे भगवान् शिवस्य च मन्दिरे आरतीपूजनं दर्शनं च कृत्वा भजनकीर्तनं सम्पन्नम्। ततः केक् छित्त्वा जन्मदिवसस्य हर्षः आचरितः।
राष्ट्रियमहासचिवः राजेशश्रीवास्तवः अधिवक्ता उक्तवान् यत् आरकेसिन्हा सदैव समाजसेवायै समर्पिताः अभवन्। कार्यक्रमे उपस्थितैः जनैः नवम्बरमासस्य एकादशे दिनाङ्के भगवान् चित्रगुप्तस्य शोभायात्रां हर्षोल्लासेन आयोजयितुं संकल्पः कृतः।
श्रीचित्रगुप्तधर्मशालायाः अध्यक्षः रमॆन्द्रनाथश्रीवास्तवः अधिवक्ता, कायस्थमहासभायाः जिलाध्यक्षः मनोजश्रीवास्तवः अधिवक्ता प्रबन्धकः आनन्दशङ्करश्रीवास्तवश्च उक्तवन्तः यत् नवम्बरमासस्य एकादशे दिनाङ्के भगवान् चित्रगुप्तस्य पूजनोत्सवस्य अवसरे रूहट्टास्थिते मन्दिरे धर्मशालायां च भव्यसज्जा करिष्यते।
अखिलभारतीयचित्रांशमहासभायाः जिलाध्यक्षः दयालशरणश्रीवास्तवः, ग्लोबलकायस्थसम्मेलनस्य जिलाध्यक्षः डॉ. उमाकान्तश्रीवास्तवः राष्ट्रियकायस्थमहापरिषदः जिलाध्यक्षः गिरिजेशश्रीवास्तवश्च उक्तवन्तः यत् भगवान् चित्रगुप्तः सर्वसमाजस्य आराध्यदेवः अस्ति। कायस्थसमाजः नवम्बरमासस्य एकादशे दिनाङ्के पूजनेन शोभायात्रया च उत्सवं आचरिष्यति।
कायस्थएकतामञ्चस्य जिलाध्यक्षः दयाशङ्करनिगमः, कायस्थसङ्घस्य अन्तरराष्ट्रीयविभागस्य जिलाध्यक्षः अजयवर्मा राष्ट्रियसचिवः विनयश्रीवास्तवः अधिवक्ता च उक्तवन्तः यत् जनपदस्य सर्वे कायस्थसङ्घटनाः शोभायात्रायां समेकितरूपेण सहभागी भविष्यन्ति। ये सङ्घटनाः अद्यावधि न संयोजिताः, तान् अपि संयोजयितुं प्रयत्नः करिष्यते।
संस्थापकाध्यक्षः चन्द्रमोहनश्रीवास्तवः शोभायात्रायाः प्रवक्ता विश्वप्रकाशश्रीवास्तवः ‘दीपकः’ च उक्तवन्तौ यत् नवरात्रोत्सवकाले एकपञ्चाशत्सदस्यात्मिकायाः पूजनमहासमित्याः घोषणा करिष्यते। अस्यां समितौ सर्वसमाजस्य जनाः सम्मिलिताः भविष्यन्ति।
कार्यक्रमे बजरङ्गप्रसादश्रीवास्तवः, डॉ. सञ्जयश्रीवास्तवः, सन्तोषश्रीवास्तवः, उमेशश्रीवास्तवः, अश्विन्यस्थाना, मनीषश्रीवास्तवः, अमितनिगमः, विजयश्रीवास्तवः, रजतश्रीवास्तवः, प्रदीपश्रीवास्तवः, राकेशश्रीवास्तवः इत्यादयः शताधिकाः जनाः उपस्थिताः आसन्। आयोजकेन अजयवर्मणा सर्वेषां प्रति कृतज्ञता प्रकटिता।---------
Hindusthan Samachar / Dheeraj Maithani