राममन्दिरस्य दानद्रव्यचौर्यप्रकरणे आरोपितानां विरुद्धम् आरोपपत्रं प्रस्तुतम्
अयोध्या, २३ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशस्य अयोध्यायां स्थिते राममन्दिरे कथितचढ़ावाराशिचौर्यप्रकरणस्य अन्वेषणं पूर्णं कृत्वा बुधवासरे आरक्षक-दलेन अष्टानाम् आरोपितानां विरुद्धं भ्रष्टाचार-निवारणविशेष-न्यायालये आरोपपत्रं प्रस्तुतम्। प्रारम्भि
बक्सों में भरी चार्जशीट


अयोध्या, २३ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशस्य अयोध्यायां स्थिते राममन्दिरे कथितचढ़ावाराशिचौर्यप्रकरणस्य अन्वेषणं पूर्णं कृत्वा बुधवासरे आरक्षक-दलेन अष्टानाम् आरोपितानां विरुद्धं भ्रष्टाचार-निवारणविशेष-न्यायालये आरोपपत्रं प्रस्तुतम्।

प्रारम्भिकसूचनानुसारम् आरक्षक-दलेन बुधवासरे प्रायः ७४ सहस्रपृष्ठपरिमितम् आरोपपत्रं न्यायालये प्रस्तुतम्। पुलिस्-दलं चतुर्षु पेटिकासु एकस्मिन् च गत्तापात्रे समाविष्टं आरोपपत्रं नीत्वा न्यायालयम् अगच्छत्।

अभियोजनस्य आधारः अन्वेषणे प्राप्तानि सीसीटीवी-दृश्यानि, आरोपितानां कथनानि, बरामदवस्तूनि, विद्युन्मानानि च साक्ष्याणि कृतानि सन्ति।

अस्य प्रकरणस्य अन्वेषणाधिकारी अयोध्यायाः क्षेत्राधिकारी आशुतोषतिवारी अवदत् यत् २७ एप्रिल्-मासत: ५ जून-मासपर्यन्तं दानराशेः कथितरूपेण अपहरणं गोपनं वा सम्बद्धाः १०५ तः अधिकाः घटनाः सीसीटीवी-दृश्येषु प्रकाशम् आगताः। एतानि दृश्यानि आरोपितानां गतिविधिभिः अन्यैः साक्ष्यैः च सह संयोज्य अन्वेषणं कृतम्। आरक्षक-दलस्य कथनानुसारम् अष्टानाम् आरोपितानां विरुद्धं पर्याप्ताः साक्ष्याः प्राप्ताः सन्ति।

Hindusthan Samachar / Divya Ranjan