मध्यप्रदेशे द्वितीयतः दशम अक्टूबरपर्यन्तं ‘सेवा मम योगदानम्’ अभियानं प्रचलिष्यति।
मध्यप्रदेशे २ तः १० अक्टूबरपर्यन्तं ‘सेवा मम योगदानम्’ अभियानम् प्रदेशस्य सर्वेषु जनपदेषु सेवायाः, स्वच्छतायाः, सुरक्षायाः सामाजिकसहभागिनां च सन्देशः प्राप्स्यते। दशविधाभिः गतिविधिभिः नागरिकाः संयोजयिष्यन्ते। भोपालम्, २३ सितम्बरमासः। मध्यप्रदेशस्
प्रतीकात्मक फोटो


मध्यप्रदेशे २ तः १० अक्टूबरपर्यन्तं ‘सेवा मम योगदानम्’ अभियानम्

प्रदेशस्य सर्वेषु जनपदेषु सेवायाः, स्वच्छतायाः, सुरक्षायाः सामाजिकसहभागिनां च सन्देशः प्राप्स्यते। दशविधाभिः गतिविधिभिः नागरिकाः संयोजयिष्यन्ते।

भोपालम्, २३ सितम्बरमासः। मध्यप्रदेशस्य योजनार्थिकसांख्यिकीविभागेन ‘सेवा मम योगदानम्’ अभियानस्य प्रभाविप्रवर्तनाय आदेशः प्रसारितः। सेवालं केवलं कार्यक्रमरूपेण न स्वीकृत्य नागरिकजीवनस्य संस्काररूपेण सामाजिकदायित्वरूपेण च प्रतिष्ठापयितुं प्रदेशे व्यापकः प्रयासः क्रियते। ‘सेवासंकल्पाभियानम् २०२६’ इत्यस्य अन्तर्गतं ‘सेवा मम योगदानम्’ अभियानं २ तः १० अक्टूबरपर्यन्तं प्रदेशस्य सर्वेषु जनपदेषु आयोजयिष्यते। अस्य अभियानस्य माध्यमेन समाजस्य सर्वान् वर्गान् सेवाकार्यैः संयोज्य जनसहभागितां जनान्दोलनस्य स्वरूपं प्रदातुं प्रयत्नः क्रियते।

जनसम्पर्काधिकारी सन्तोषमिश्रेण बुधवासरे उक्तं यत् अभियानस्य अन्तर्गतं स्वच्छता पर्यावरणसंरक्षणं च आरभ्य योगध्यानयोः आयोजनम्, साइबरसुरक्षा, मार्गसुरक्षा, नशामुक्तिः, ‘वोकल फॉर लोकल’, वीरगाथा सैनिकसम्मानश्च, शासकीययोजनानां विषये जागरूकता तथा अनाथालयेषु वृद्धाश्रमेषु च सेवाकार्यम् इत्यादीनि दश व्यापककार्यक्रमाः समाविष्टाः सन्ति।

विशेषतया एते कार्यक्रमाः केवलं शासकीयविभागेषु सीमिताः न भविष्यन्ति। जनप्रतिनिधयः, विद्यार्थिनः, वरिष्ठनागरिकाः, व्यापारीजनाः, क्रीडकाः, कलाकाराः, शिल्पकाराः, साहित्यकाराः, सामाजिकधार्मिकसङ्घटनानि, स्वयंसेवीसंस्थाः तथा महिला स्वसहायतासमूहाः अपि अस्मिन् अभियानकार्यक्रमे सहभागी भविष्यन्ति।

गांधीजयन्त्यां स्वच्छतायाः हरितिमायाश्च सन्देशः

तेन उक्तं यत् २ अक्टूबरदिनाङ्के गांधीजयन्त्याः अवसरॆ ‘स्वच्छता एव सेवा’ इति भावनया वृक्षारोपणाभियानेन च अभियानस्य शुभारम्भः भविष्यति। ग्रामेभ्यः नगरपर्यन्तं धार्मिकस्थलेषु, ऐतिहासिकस्थलेषु, शासकीयपरिसरेषु, विद्यालयमहाविद्यालयेषु, उद्यानेषु, विपणिषु, बसस्थानकेषु, रेलस्थानकेषु, चिकित्सालयेषु तथा गोशालासु स्वच्छताकार्यक्रमाः आयोजयिष्यन्ते।

कूपेषु, वापीषु, तडागेषु, नदीतीरेषु तथा घाटेषु विशेषस्वच्छता, श्रमदानं सामूहिकसंकल्पश्च आयोजयिष्यते।

तदनन्तरं परतीनभूमिषु, नदीनां जलस्रोतसां च तटे तथा सार्वजनिकेषु शासकीयेषु च परिसरेषु वृक्षारोपणं करिष्यते। अभियानस्य लक्ष्यं केवलं वृक्षारोपणपर्यन्तं सीमितं न भविष्यति, अपि तु रोपितानां वृक्षाणां संरक्षणस्य दायित्वमपि सुनिश्चितं करिष्यते। वनविभागः, पञ्चायत् ग्रामीणविकासविभागः, नगरीयप्रशासनं सामाजिकसङ्घटनानि च अस्मिन् कार्ये सक्रियतया सहभागी भविष्यन्ति।

स्वस्थजीवनात् सुरक्षितसमाजपर्यन्तम्

जनसम्पर्काधिकारिणा उक्तं यत् स्वस्थजीवनशैल्याः मानसिकसन्तुलनस्य च सन्देशं प्रसारयितुं ३ अक्टूबरदिनाङ्के जनपदविकासखण्डस्तरे योगध्यानसत्राणि आयोजयिष्यन्ते। योगशिक्षकाणां विविधयोगसामाजिकसांस्कृतिकसंस्थानां च सहभागितया एते कार्यक्रमाः व्यापकस्वरूपं प्राप्स्यन्ति।

अद्यतनस्य डिजिटलयुगस्य आव्हानानि दृष्ट्वा साइबरसुरक्षामपि अभियानस्य महत्त्वपूर्णः भागः कृतः अस्ति। ४ अक्टूबरदिनाङ्के आरक्षिक्षेत्रेषु विशेषज्ञगोष्ठ्यः, व्याख्यानानि जागरूकताशिबिराणि च आयोजयिष्यन्ते। साइबरछलात् रक्षणम्, सामाजिकमाध्यमानां सुरक्षितोपयोगः, द्विचरणीयप्रमाणीकरणम्, ओटीपी, सीवीवी तथा आधारसङ्ख्यायाः सुरक्षा इत्यादिषु विषये नागरिकान् जागरूकान् करिष्यन्ति।

मार्गसुरक्षायै नशामुक्त्यै च जनजागरणम्

तेन उक्तं यत् मार्गसुरक्षां प्रति जागरूकतायै रैलयः, गोष्ठ्यः जनजागरणकार्यक्रमाश्च आयोजयित्वा ५ अक्टूबरदिनाङ्के शिरस्त्राणस्य, आसन्दीपट्टिकायाः, अग्रदीपस्य, वाहनचालनानुज्ञापत्रस्य तथा अन्येषां यातायातनियमानां पालनस्य सन्देशः प्रदास्यते। यातायातपुलिसस्य सह एनसीसी एनएसएस संस्थयोः सहभागितया जनपदविकासखण्डमुख्यालयानां प्रमुखमार्गेषु चतुष्पथेषु च विविधाः गतिविधयः सञ्चालयिष्यन्ते।

मादकद्रव्याणां विरुद्धं सामाजिकचेतनां सुदृढां कर्तुं ६ अक्टूबरदिनाङ्के ‘नशामुक्तभारत’ जागरूकताकार्यक्रमाः आयोजयिष्यन्ते। रैलीभिः, प्रदर्शनीभिः, विचारगोष्ठीभिः सामूहिकसंकल्पेन च युवजनान् सामान्यनागरिकांश्च मादकद्रव्यसेवनस्य दुष्परिणामान् प्रति जागरूकान् करिष्यन्ति। आरक्षाविभागः, सामाजिकन्यायविभागः, विद्यालयः उच्चशिक्षाविभागश्च एनसीसी एनएसएस संस्थाभ्यां सह अस्मिन् अभियानॆ सहभागी भविष्यन्ति।

स्थानीयोत्पादेभ्यः विपण्यः, कौशलेभ्यः सम्मानश्च

जनसम्पर्काधिकारिणा उक्तं यत् स्थानीयार्थव्यवस्थायाः स्वदेशीउत्पादानां च प्रोत्साहनाय ८ अक्टूबरदिनाङ्के ‘वोकल फॉर लोकल सहकारिता’ गतिविधिः आयोजयिष्यते। स्थानीयोत्पादानां प्रदर्शनी, संवादः विचारगोष्ठ्यश्च आयोजिताः भविष्यन्ति तथा स्वदेशीयानां स्थानीयसामग्रीणां च उपयोगाय संकल्पः कारयिष्यते।

महिला स्वसहायतासमूहानां स्थानीयशिल्पकाराणां च सम्मानः करिष्यते। स्थानीयोत्पादसम्बद्धानां नवोद्यमानां कृते वित्तीयसंस्थानां सहकारेण विशेषशिबिराण्यपि आयोजयिष्यन्ते।

स्थानीयोत्पादानां शिल्पकाराणां च परिचयं व्यापकं मंचं प्रदातुं तेषां चित्राणि चलचित्राणि च सामाजिकमाध्यमेषु प्रसारयिष्यन्ते। सूक्ष्मलघुमध्यमोद्यमविभागः, पञ्चायत् ग्रामीणविकासविभागः, कृषकउत्पादकसङ्घटनानि, स्थानीयबैंकाः, सहकारीसंस्थाः तथा वनोपजसङ्घाः अस्यां गतिविधौ संयोजिताः भविष्यन्ति।

वीराणां गाथाः कथयिष्यति मध्यप्रदेशः, सैनिकानां सम्मानश्च भविष्यति

तेन उक्तं यत् राष्ट्रसेवायाः वीरतायाश्च भावनां नवपीढ्यै प्रापयितुं ८ अक्टूबरदिनाङ्के ‘वीरगाथा सैनिकसम्मान’ कार्यक्रमाः अपि आयोजयिष्यन्ते। पूर्वसैनिकाः, हुतात्मनां परिवारजनाः, आपदाबलस्य सदस्याः, गृहरक्षकाः, पुलिसबलस्य सदस्याः तथा शौर्यस्य परिचयं दत्तवन्तः बालकाः, युवजनाः महिलाश्च तथा सैन्याधिकारीणः सम्मानिताः भविष्यन्ति।

वीरगाथाधारितानां चलचित्राणां प्रदर्शनं तथा छायाचित्रप्रदर्शन्यश्च आयोजयिष्यन्ते। कार्यक्रमाः गरिमापूर्णेन अनुशासितेन च स्वरूपेण आयोजयिष्यन्ते। राष्ट्रगीतस्य ‘वन्दे मातरम्’ इत्यस्य गायनेन कार्यक्रमस्य प्रारम्भः राष्ट्रगानेन च समापनं भविष्यति।

योजनानां सूचनया नागरिकसेवासु प्रवेशः

जनसम्पर्काधिकारिणा उक्तं यत् सर्वकारस्य जनकल्याणकारीयोजनाः पात्रनागरिकेभ्यः प्राप्नुयुः इत्युद्देश्येन ९ अक्टूबरदिनाङ्के ‘शासकीययोजनाजागरूकता’ गतिविधिः आयोजयिष्यते। केन्द्रसर्वकारस्य राज्यसर्वकारस्य च योजनानां विषये सूचनां प्रदातुं शिबिराणि, प्रदर्शन्यः लाभार्थिसंवादाश्च आयोजयिष्यन्ते।

समग्र, अपार, आधार इत्यादीनां आवश्यकपरिचयपत्राणाम् अद्यतनीकरणाय तथा रोजगारपत्रिकानिर्माणाय अपि शिबिराणि आयोजयिष्यन्ते।

अस्याः पहलस्य उद्देश्यं केवलं योजनानां प्रचारः न, अपि तु नागरिकान् उपलब्धाभिः शासकीयसेवाभिः कल्याणकारीयोजनाभिश्च संयोजयितुम् अस्ति, येन पात्राः नागरिकाः योजनाभ्यः लाभप्राप्तेः प्रक्रिया आवश्यकदस्तावेजानां च विषये सम्यक् सूचनां प्राप्नुयुः।

सेवायाः सर्वाधिकं संवेदनशीलं चरणम् — अनाथालयेषु वृद्धाश्रमेषु च सेवा

तेन उक्तं यत् अभियानस्य अन्तिमे चरणे १० अक्टूबरदिनाङ्के अनाथालयेषु वृद्धाश्रमेषु च सेवाकार्यक्रमाः आयोजयिष्यन्ते। आवश्यकतानुसारं फलानि, औषधानि, वस्त्राणि अन्यावश्यकसामग्रीश्च प्रदास्यन्ते। स्वास्थ्यशिबिराणां माध्यमेन स्वास्थ्यसेवाः अपि उपलब्धाः करिष्यन्ते।

एतेषां संस्थानां निरन्तरं सेवां कुर्वन्तः समाजसेवकाः सामाजिकसङ्घटनानि च सम्मानिताः भविष्यन्ति।

जनपदस्तरात् ग्रामवार्डपर्यन्तं कार्ययोजनानिर्माणम्

जनसम्पर्काधिकारिणा उक्तं यत् अभियानस्य सफलतायै जनपदप्रशासनेन प्रत्येकस्याः गतिविधेः कृते पृथक् नोडलविभागः विभिन्नेषु स्तरेषु नोडलाधिकारिणश्च नियुक्ताः भविष्यन्ति। १ अक्टूबरात् पूर्वं समन्वयगोष्ठी आयोज्य गतिविध्यनुसारं रणनीतिः निर्मास्यते।

जनपदस्तरात् विकासखण्डस्तरं, ग्रामपञ्चायतस्तरं, नगरीयनिकायस्तरं वार्डस्तरं च यावत् दायित्वानि निर्धारितानि भविष्यन्ति।

प्रत्येकस्याः गतिविधेः छायाचित्रणं चलचित्रणं च कृत्वा सामाजिकमाध्यमेषु व्यापकः प्रचारः प्रसारश्च करिष्यते। गतिविधीनां विवरणं मुख्यमन्त्रिडैशबोर्डे अपलोड् करिष्यते। श्रमदानं जनसहभागितां च कुर्वतां नागरिकाणां प्रोत्साहनं सम्माननं च करिष्यते।

सेवां संस्काररूपेण योगदानं नागरिकदायित्वरूपेण च प्रतिष्ठापयितुं प्रयासः

‘सेवा मम योगदानम्’ अभियानस्य सार्थकता अस्मिन् विषये अस्ति यत् अत्र सेवा कस्यचित् एकस्य विभागस्य वर्गस्य वा दायित्वम् इति न स्वीक्रियते, अपि तु समाजस्य सामूहिकदायित्वस्य रूपेण स्थाप्यते।

स्वच्छतातः पर्यावरणसंरक्षणं, योगात् स्वास्थ्यं, साइबरमार्गसुरक्षाभ्यां नागरिकसुरक्षा, नशामुक्त्या सामाजिकचेतना, स्थानीयोत्पादैः आर्थिकसशक्तीकरणं, सैनिकसम्मानेन राष्ट्रभावना तथा अनाथालयवृद्धाश्रमयोः सेवया संवेदनशीलता इत्येते समाजस्य विभिन्नाः सरोकाराः एकया सेवाभावनया संयोजिताः सन्ति।

अस्य अभियानस्य मूलभावना अस्ति — सेवा जीवनस्य संस्कारः भवतु, योगदानं च प्रत्येकस्य नागरिकस्य दायित्वं भवतु।

Hindusthan Samachar / Dheeraj Maithani