मोदीसर्वकारस्य कार्येण प्रभाविताः मेघालयस्य अष्टौ विधायकाः भाजपादले सम्मिलिताः - किरेणरिजिजुः
नवदिल्ली, २३ सेप्टेम्बरमासः (हि.स.)। केन्द्रीयसंसदीयकार्य-मन्त्री किरेणरिजिजुः मेघालयविधानसभायाः निर्वाचितानाम् अष्टानां विधायकानां भारतीयजनतादले सम्मिलितानां स्वागतं कृतवान्। सः पत्रकारवार्तायाम् अष्टानां विधायकानाम् उपस्थितौ अवदत् यत् एतत् पूर्वो
Press conference image


नवदिल्ली, २३ सेप्टेम्बरमासः (हि.स.)। केन्द्रीयसंसदीयकार्य-मन्त्री किरेणरिजिजुः मेघालयविधानसभायाः निर्वाचितानाम् अष्टानां विधायकानां भारतीयजनतादले सम्मिलितानां स्वागतं कृतवान्। सः पत्रकारवार्तायाम् अष्टानां विधायकानाम् उपस्थितौ अवदत् यत् एतत् पूर्वोत्तरस्य कृते महत्त्वपूर्णः घटनाक्रमः अस्ति।

किरणरिजिजुः अवदत् यत् भाजपादले सम्मिलिताः सर्वे अष्टौ विधायकाः पूर्वं यूनाइटेड डेमोक्रेटिकदलेन सह सम्बद्धाः आसन्। सः यूडीपी-दलं मेघालयस्य महत्त्वपूर्णं क्षेत्रीयदलं वर्णयन् एतेषाम् विधायकानां भाजपापरिवारे स्वागतं कृतवान्।

रिजिजुः अवदत् यत् प्रधानमन्त्रिण: नरेन्द्रमोदिनः नेतृत्वे विगतेषु द्वादशवर्षेषु पूर्वोत्तरे मेघालये च विकासः परिवर्तनं च दृष्टम् अस्ति। तस्य मतानुसारं प्रधानमन्त्री मोदी इत्यस्य पूर्वोत्तरस्य जनैः सह भावनात्मकः सम्बन्धः अस्ति तथा भाजपादलेन अस्मिन् क्षेत्रे विकासस्य राजनीतिः नूतनां दिशां प्राप्तवती।

केन्द्रीयमन्त्री अवदत् यत् एतेषां परिवर्तनानां विकासकार्याणां च दृष्ट्वा मेघालयस्य एते अष्टौ विधायकाः प्रधानमन्त्रीमोदिनः भाजपानेतृत्वयुक्तायाः सर्वकारस्य च कार्यैः प्रभाविताः अभवन्। सः अवदत् यत् एतस्मिन् विश्वासे एते विधायकाः भाजपादलेन सह सम्मिलितुं निर्णयं कृतवन्तः।

रिजिजुः अष्टानामपि विधायकानां भाजपादले स्वागतं कुर्वन् एतत् पूर्वोत्तरस्य मेघालयस्य च राजनीतिदृष्ट्या महत्त्वपूर्णं घटनाक्रमम् अवर्णयत्। पत्रकारवार्तायां भाजपादलस्य राष्ट्रियप्रवक्ता सम्बित्पात्रस्य उपस्थितौ सर्वे अष्टौ विधायकाः भाजपादलेन सह सम्बद्धतां घोषितवन्तः।

Hindusthan Samachar / Divya Ranjan