Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 23 सितंबरमासः (हि.स.)।
मुख्यमन्त्री पुष्करसिंहधामिना बुधवासरे मुख्यमन्त्रिनिवासे आयुर्वेददिवसस्य अवसरे भगवान् धन्वन्तरेः पूजाऽर्चना कृता। तेन प्रदेशवासिनां स्वास्थ्यस्य, सुखसमृद्धेः कल्याणस्य च कामना कृता।
मुख्यमन्त्री उक्तवान् यत् आयुर्वेदः भारतस्य प्राचीनज्ञानपरम्परायाः समृद्धपरम्परायाश्च महत्त्वपूर्णः भागः अस्ति। स्वस्थजीवनशैल्याः अनुसरणे रोगाणां निवारणे च आयुर्वेदस्य महत्त्वपूर्णा भूमिका अस्ति।
तेन उक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे आयुर्वेदस्य भारतस्य पारम्परिकचिकित्सापद्धतीनां च वैश्विकस्तरे नूतना प्रतिष्ठा प्राप्यते। आयुर्वेदस्य प्राचीनज्ञानपरम्परां आधुनिकसन्दर्भैः सह अग्रे नेतुं प्रयत्नाः क्रियन्ते।---------------
Hindusthan Samachar / Dheeraj Maithani