Enter your Email Address to subscribe to our newsletters

लखनऊ, 23 सितंबरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः बुधवासरे लखनऊनगरे स्थिते स्वकीयस्य शासकीयावासे पञ्चकालिदासमार्गे भारतटैक्सी तथा मुख्यमन्त्रिकृषकसमृद्धियोजनयोः शुभारम्भं कृतवान्। अस्मिन् अवसरे तेन सह उपमुख्यमन्त्री ब्रजेशपाठकः, कृषिमन्त्री सूर्यप्रतापशाही, सहकारितामन्त्री जेपीएसराठौरः इत्यादयः अन्ये च जनाः उपस्थिताः आसन्।
मुख्यमन्त्री योगी आदित्यनाथः स्वसम्बोधने उक्तवान् यत् यदि भवन्तः नकारात्मकविचारयुक्तानां जनानां हस्ते अस्त्राणि शस्त्राणि च दास्यन्ति, तर्हि ते तेषां प्रयोगं विध्वंसाय, शोषणाय, अराजकतायै च करिष्यन्ति तथा शक्तेः दुरुपयोगं करिष्यन्ति। यदि सा एव शक्तिः सकारात्मककल्याणकारीचिन्तनयुक्तानां जनानां हस्ते दीयते, तर्हि तत् शस्त्रं समाजस्य राष्ट्रस्य च सुरक्षायै कारणं भवति।
सहकारिता द्विधारा खड्गवत् अस्ति। तस्याः पक्षः सकारात्मकः अपि अस्ति नकारात्मकः अपि। यदि उत्तमं नेतृत्वं भवति, तर्हि सहकारिता समृद्धेः कारणं भवति। यदि नेतृत्वं सम्यक् न भवति, तर्हि सहकारिता समाजे अराजकतायाः कारणमपि भवितुं शक्नोति। देशे २०१४ तमवर्षस्य पूर्वं तथा प्रदेशे २०१७ तमवर्षस्य पूर्वं यत् वातावरणं निर्मितम् आसीत्, तस्मात् सहकारिताक्षेत्रमपि अछिन्नं न आसीत्।
मुख्यमन्त्रिणा उक्तं यत् वयं प्रधानमन्त्रिणः नरेन्द्रमोदिनः आभारीः स्मः यत् स्वातन्त्र्यानन्तरं प्रथमवारं देशे पृथक् सहकारितामन्त्रालयस्य गठनं कृतम्। सहकारिताविषये नूतना चिन्तनधारा विकसितवती। तस्याः परिणामः अधुना अस्माभिः दृश्यते। पूर्वं कश्चित् टैक्सीचालकानां, द्विचक्रिकाचालकानां, त्रिचक्रिकाचालकानां वा विषये विशेषतया न चिन्तयति स्म। अधुना ते शून्यायोगधनेन भारतटैक्स्याः भागीदाराः भविष्यन्ति तथा तेषां कृते पञ्चलक्षरूप्यकाणां सामाजिकसुरक्षाकवचमपि प्रदास्यते।
योगी आदित्यनाथः उक्तवान् यत् अन्नदाता कृषकः समृद्धः भविष्यति चेत् भारतमपि समृद्धं भविष्यति। सहकारिताक्षेत्रं यथा यथा सुदृढं भविष्यति, तथा तथा भारतमपि सुदृढं भविष्यति। अस्य क्षेत्रस्य सुदृढीकरणाय एव इदं मञ्चं प्रत्येकं चालकं आश्वासयितुं समागतं यत् भवतां साहाय्यार्थं केन्द्रस्य राज्यस्य च संयुक्तशासनं दृढतया स्थितम् अस्ति।
योगी आदित्यनाथः उक्तवान् यत् २०१७ तमवर्षस्य पूर्वं उत्तरप्रदेशे बहूनि दिनानि यावत् कर्फ्यू भवति स्म। दङ्गाः भवन्ति स्म तथा अराजकता चरमसीमायां आसीत्। जनाः यदा टैक्स्यां त्रिचक्रिकायां वा उपविशन्ति स्म, तदा शुल्कं न ददति स्म। कदाचित् सत्ताधारीदलस्य जनाः चालकं मारयित्वा तस्य टैक्सीम् अपि नीत्वा अदृश्याः भवन्ति स्म।
मेरठे यावन्ति चोरितानि वाहनानि आसन्, तेषां वाहनानां ढाञ्चाः परिवर्त्यन्ते स्म। २०१७ तमवर्षस्य पूर्वं वाहनस्य विषयः तु दूरम्, यदि कश्चित् स्वकीयया महिषशकट्या गच्छति स्म, तर्हि तस्य महिषः अपि अपह्रियते स्म। टैक्स्याः चक्राणि अपि अपह्रियन्ते स्म। मार्गेषु गर्ताः आसन् वा गर्तेषु मार्गाः आसन्, इति ज्ञातुमपि कठिनम् आसीत्। अधुना अन्तर्राज्यीयमार्गसम्पर्कः चतुष्पथमार्गरूपेण विकसितः अस्ति। ग्रामाणां मार्गाः अपि उत्तमरूपेण निर्मिताः सन्ति।-------------
Hindusthan Samachar / Dheeraj Maithani