वाराणसी : त्रयोविंशतिवर्षीयायाः छात्रायाः शिवान्याः कृते दशरलक्षरूप्यकाणां धनादेशः प्रदत्तः
वाराणसी, २३ सितम्बर (हि.स.)। पीएम केयर्स फॉर चिल्ड्रेन योजनायाः अन्तर्गतं वाराणस्याः जिलाधिकारी सत्येन्द्रकुमारेण बुधवासरे लाभार्थिनी शिवानी इत्यस्यै त्रयोविंशतिवर्षीयायाः आयुः पूर्णतायां दशरलक्षरूप्यकाणां धनादेशः प्रदत्तः। जिलाधिकारेण शिवान्यै तस
शिवानी को चेक देते जिलाधिकारी


वाराणसी, २३ सितम्बर (हि.स.)। पीएम केयर्स फॉर चिल्ड्रेन योजनायाः अन्तर्गतं वाराणस्याः जिलाधिकारी सत्येन्द्रकुमारेण बुधवासरे लाभार्थिनी शिवानी इत्यस्यै त्रयोविंशतिवर्षीयायाः आयुः पूर्णतायां दशरलक्षरूप्यकाणां धनादेशः प्रदत्तः।

जिलाधिकारेण शिवान्यै तस्याः उज्ज्वलायाः आत्मनिर्भरस्य च भविष्यस्य कृते शुभकामनाः प्रदाय अग्रिमशिक्षां निरन्तरं कर्तुं जीवने सफलतां प्राप्तुं च प्रेरिता।

उल्लेखनीयं यत् पीएम केयर्स फॉर चिल्ड्रेन योजनायाः अन्तर्गतं समाविष्टानां बालकानां कृते जिलाधिकारी वैधानिकः अभिभावकः नामितः अस्ति। एतस्य दायित्वस्य निर्वहनं कुर्वन् जिलाधिकारेण शिवान्यै वित्तीयसहायतायाः धनादेशः प्रदत्तः तथा आत्मनिर्भरां भवितुं दिशि अग्रे वर्धितुं तस्यै प्रोत्साहनं प्रदत्तम्।

अस्मिन् अवसरे शिवान्या प्रधानमन्त्रिणे नरेन्द्रमोदिने जिलाप्रशासनाय च कृतज्ञतां प्रकटयन्ती उक्तवती यत् एतया आर्थिकसहायतया तस्यै स्वकीयशिक्षां पूर्णां कर्तुं आत्मनिर्भरां भवितुं च महत्त्वपूर्णं सम्बलं प्राप्स्यते।

अस्मिन् अवसरे जिलाप्रोबेशनाधिकारी पङ्कजकुमारमिश्रः अपि उपस्थितः आसीत्।

इयं योजना २९ मई २०२१ दिनाङ्के तेषां बालकानां कृते प्रारब्धा आसीत्, येषां कोविडमहामार्याः समये माता पिता वा अभिभावकाः मृताः आसन्। अस्याः योजनायाः उद्देश्यं एतादृशानां अनाथबालकानां भविष्यनिर्माणे आर्थिकबाधा न भवेत् इति अस्ति।

Hindusthan Samachar / Dheeraj Maithani