उत्तरप्रदेश-अन्ताराष्ट्रिय-व्यापार-प्रदर्शिन्यां प्रकाशिष्यते बाँदायाः शजरशिल्पं बुन्देली-स्वादश्च
बाँदायाः शिल्पिनः उद्यमिनश्च अन्ताराष्ट्रिय-विपणौ प्रदर्शयिष्यन्ति स्वकौशलम् बाँदा, २३ सेप्टेम्बरमासः (हि.स.)। बुन्देलखण्डस्य कला, शिल्पं पारम्परिकः स्वादश्च अधुना अन्ताराष्ट्रियमञ्चे परिचयं प्राप्स्यति। ग्रेटर-नोएडायाम् आयोज्यमाने यूपी-अन्ताराष्ट
बांदा के उत्पाद


बाँदायाः शिल्पिनः उद्यमिनश्च अन्ताराष्ट्रिय-विपणौ प्रदर्शयिष्यन्ति स्वकौशलम्

बाँदा, २३ सेप्टेम्बरमासः (हि.स.)। बुन्देलखण्डस्य कला, शिल्पं पारम्परिकः स्वादश्च अधुना अन्ताराष्ट्रियमञ्चे परिचयं प्राप्स्यति। ग्रेटर-नोएडायाम् आयोज्यमाने यूपी-अन्ताराष्ट्रिय-व्यापार-प्रदर्शिनी-२०२६ मध्ये बाँदायाः शजर-शिलया निर्मितानि हस्तशिल्पानि, पारम्परिकमिष्टान्नानि, खाद्यपदार्थाः, युवा-उद्यमिनां उत्पादाश्च प्रदर्शयिष्यन्ते। जनपदस्य चयनिताः शिल्पिनः उद्यमिनश्च वैश्विकविपण्ये स्वप्रतिभायाः उत्पादानां च परिचयं स्थापयितुं सज्जाः सन्ति।

शजरशिलायाः द्वे प्रदर्शिनीस्थले आकर्षणस्य केन्द्रे

एक-जनपद-एक-उत्पाद-योजनायाः अन्तर्गतं बाँदायाः शजरशिलायाः विशेषा ख्यातिः प्राप्ता अस्ति। व्यापारप्रदर्शिन्यां शजरशिलया निर्मितानां कलाकृतीनां द्वे प्रदर्शिनीस्थले स्थापयिष्येते। ओडीओपी-वर्गे द्वारिकाप्रसाद-सोनी तथा अर्जुन-गुप्त इत्येतयोः चयनं कृतम् अस्ति। उभौ उद्यमिनौ केन-नद्याः तीरे प्राप्यमाणया दुर्लभया शजरशिलया निर्मितानि आकर्षकाणि हस्तशिल्पानि कलाकृतीश्च प्रदर्शयिष्यतः। अन्ताराष्ट्रियक्रेतृणां कृते शजरशिलानिर्मिताः उत्पादाः विशेषा-कर्षणस्य केन्द्रं भविष्यन्ति इति अपेक्षा अस्ति।

बुन्देली-मिष्टान्नानामपि प्रदर्शयिष्यते स्वादः

व्यापारप्रदर्शिन्यां बाँदायाः पारम्परिक-खाद्यपदार्थेभ्यः अपि अन्तर्राष्ट्रीयपरिचयं दातुं सज्जता क्रियते। ओडीओसी-वर्गस्य अन्तर्गतं दीपक-सोनी बाँदायाः प्रसिद्धयोः बालूशाही-सोहनहलुवा-मिष्टान्नयोः प्रदर्शिनीस्थलं स्थापयिष्यति। अपरतः एमएसएमई-वर्गात् कमल-आहूजा स्वस्य बेकरी-उत्पादैः जनपदस्य आधुनिकखाद्य-व्यवसायस्य प्रतिनिधित्वं करिष्यति।

युवा-उद्यमिनोऽपि अन्ताराष्ट्रियमञ्चे

मुख्यमन्त्री-युवा-उद्यमि-योजनायाः अन्तर्गतं चयनितौ रवी-नगाइचः शिवम-कुशवाहश्चापि व्यापारप्रदर्शिन्यां भागं गृहीत्वा स्वकीयान् उत्पादान् उद्यमं च प्रदर्शयिष्यतः। एवं जनपदस्य हस्तशिल्पानां, खाद्यपदार्थानां, नूतनानाम् उद्यमानां च एकस्मिन् मञ्चे अन्ताराष्ट्रिय क्रेतृभिः सह सम्पर्कस्थापनस्य अवसरः प्राप्यते।

नूतनविपण्यां निर्यातस्य च अपेक्षा

उद्योगविभागस्य संयुक्तायुक्तः सुधीर-श्रीवास्तवः अवदत् यत् यूपी-अन्ताराष्ट्रिय-व्यापार-प्रदर्शिनी बाँदायाः स्थानीय-उत्पादान् बृहद्विपणिना सह संयोजयितुं महत्त्वपूर्णः अवसरः अस्ति। शजर-उद्योगेन सम्बद्धानां शिल्पिनाम् उद्यमिनां च अपेक्षा अस्ति यत् अन्ताराष्ट्रियक्रेतृभिः सह सम्पर्कवृद्ध्या नूतनाः व्यापारिकावसराः निर्यातस्य च मार्गाः उद्घाटिष्यन्ते। पारम्परिकाणां बुन्देली-व्यञ्जनानां युवा-उद्यमिनां उत्पादानां च व्यापकविपण्यं प्राप्तुं सम्भावना अस्ति।

सर्वकारीययोजनानां माध्यमेन स्थानीय-शिल्पिभ्यः उद्यमिभ्यश्च प्राप्यमाणं एतत् मञ्चं बाँदायाः पारम्परिककौशलं जनपदस्य सीमाभ्यः बहिः प्रापयितुं महत्त्वपूर्णां भूमिकां निर्वोढुं शक्नोति। व्यापारप्रदर्शिन्यां बाँदायाः सहभागितया ‘शजरस्य प्रभा बुन्देलीस्वादश्च’ वैश्विकं परिचयं प्राप्स्यतः इति अपेक्षा अस्ति।

Hindusthan Samachar / Divya Ranjan