Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २३ सेप्टेम्बरमासः (हि.स.)। दिल्ल्याः विधानसभाध्यक्षः विजेन्द्र-गुप्तः बुधवासरे ब्राजीलदेशस्य अध्ययनयात्रायाः समये रियो डी जेनेरियो-राज्यस्य न्यायालयस्य अध्यक्षकार्यालये तस्य राज्यस्य कार्यवाहकराज्यपालम् आह्वान-न्यायाधीशं च रिकार्डो-कौटो-डी-कास्त्रो इत्येनं मिलितवान्। सभायां भारत-ब्राजीलयोः मध्ये संस्थागतसम्बन्धाः सुदृढीकर्तुं विषये चर्चा अभवत्। उभाभ्यां लोकतान्त्रिकशासनस्य, सार्वजनिक-संस्थानानां तथा परस्परहितसम्बद्धानां विविधविषयाणां विषये विचाराणाम् आदान-प्रदानं कृतम्। इयं सूचना विज्ञप्तिमाध्यमेन प्रदत्ता।
विजेन्द्र-गुप्तः सभायां लोकतान्त्रिक-संस्थानानां मध्ये निरन्तरसंवादस्य तथा अनुभवश्रेष्ठकार्यपद्धतिनां च अधिकाधिक-आदानप्रदानस्य महत्त्वं रेखाङ्कितवान्। सः अवदत् यत् भारतं ब्राजीलदेशश्च प्रमुखौ लोकतान्त्रिकदेशौ स्तः तथा विभिन्नेषु स्तरेषु संस्थागत-सहयोगं अधिकं सुदृढीकर्तुं परस्पर-संवादस्य माध्यमानि च बलीयांसि कर्तुं व्यापकाः सम्भावनाः सन्ति।
इयं सभा भारत-ब्राजीलयोः व्यापकस-म्बन्धानां परिप्रेक्ष्ये उपराष्ट्रियस्तरे संस्थागतस्तरे च आदान-प्रदानस्य वर्धमानं महत्त्वमपि प्रदर्शयति।
/ अंशु गुप्ता