२५ सितम्बर् दिनाङ्के एककोटिकण्ठेभ्यः गुञ्जयिष्यते ‘वन्दे मातरम्’।
सीवानम्, 23 सितंबरमासः (हि.स.)। ‘वन्दे मातरम्’ इति राष्ट्रगीतस्य १५० वर्षाणि पूर्णानि भवन्ति इति उपलक्ष्ये पञ्चविंशतितमे सितम्बरदिने देशव्यापीरूपेण ‘नमामि भारतम्’ इति कार्यक्रमस्य आयोजनं भविष्यति। अस्य अन्तर्गतं प्रातः एकादशवादने देशस्य लक्षाधिके
कार्यक्रम की जानकारी देते विद्या भारती के अधिकारी


सीवानम्, 23 सितंबरमासः (हि.स.)।

‘वन्दे मातरम्’ इति राष्ट्रगीतस्य १५० वर्षाणि पूर्णानि भवन्ति इति उपलक्ष्ये पञ्चविंशतितमे सितम्बरदिने देशव्यापीरूपेण ‘नमामि भारतम्’ इति कार्यक्रमस्य आयोजनं भविष्यति। अस्य अन्तर्गतं प्रातः एकादशवादने देशस्य लक्षाधिकेषु स्थानेषु एकस्मिन्नेव समये राष्ट्रगीतस्य ‘वन्दे मातरम्’ इत्यस्य सामूहिकगानं भविष्यति। अस्मिन् कार्यक्रमे एककोटितः अधिकानां जनानां सहभागितायाः लक्ष्यं निर्धारितम् अस्ति।

कार्यक्रमस्य सज्जतासम्बन्धे सोमवासरे महावीरी सरस्वती विद्यामन्दिरस्य विजयहाता इत्यस्य प्राचार्यकक्षे वार्ताहरसम्मेलनस्य आयोजनं कृतम्। अस्मिन् विद्याभारती उत्तरबिहारप्रान्तीयैककायाः लोकशिक्षासमितेः बिहारप्रदेशसचिवः रामलालसिंहः अवदत् यत् देशे सर्वत्र सञ्चालितानि विद्याभारत्याः १२,५०० विद्यालयानि अस्य अभियानस्य प्रमुखकेन्द्राणि भविष्यन्ति। एतेषु विद्यालयेषु प्रायः ३० लक्षं छात्राः, शिक्षकाः अभिभावकाश्च सामूहिकगाने सम्मिलिताः भविष्यन्ति। विद्याभारत्या सम्बद्धाः प्रायः २५ लक्षं पूर्वछात्राः अपि अस्मिन् अभियाने संयोज्यन्ते।

रामलालसिंहेन उक्तं यत् ‘नमामि भारतम्’ केवलं कार्यक्रमः न, अपितु राष्ट्रभावनां जनजनं प्रति प्रसारयितुं व्यापकः अभियानः अस्ति। देशे सर्वत्र कार्यक्रमस्य सफलतायै विशेषसमितीनां गठनं कृतम् अस्ति। तेन उक्तं यत् पञ्चविंशतितमे सितम्बरदिने एकस्मिन्नेव समये एककोटिकण्ठेभ्यः ‘वन्दे मातरम्’ इत्यस्य स्वरः देशस्य एकतायाः, अखण्डतायाः तथा मातृभूमेः प्रति समर्पणस्य सन्देशं प्रसारयिष्यति।

विद्याभारती बिहारस्य कार्यकारिणीसदस्यः तथा महावीरी सरस्वती विद्यामन्दिरस्य विजयहाता इत्यस्य अध्यक्षः डॉ. शरदचौधरी अवदत् यत् कार्यक्रमं केवलं विद्यालयानां परिसरेषु सीमितं न कृत्वा समाजस्य विभिन्नवर्गान् प्रति नेतुं योजना अस्ति। अस्य कृते सामाजिकसङ्घटनानि विभिन्नाः संस्थाश्च अभियाने संयोज्यन्ते।

विद्याभारती बिहारस्य माध्यमसमन्वयकः नवीनसिंहपरमारः अवदत् यत् उत्तरबिहारप्रान्तस्य २१ जनपदेषु प्रायः ५०० स्थानेषु सामूहिकगानस्य आयोजनं भविष्यति। अस्मिन् प्रायः पञ्चलक्षं जनाः सम्मिलिताः भविष्यन्ति इति सम्भावना अस्ति।

सीवानविभागस्य निरीक्षकः अनिलकुमाररामः अवदत् यत् सीवान, छपरा तथा गोपालगञ्जजनपदेषु मिलित्वा ६१ स्थानेषु कार्यक्रमस्य आयोजनं प्रस्तावितम् अस्ति। एतेषु स्थानेषु प्रायः एकलक्षजनानां सहभागितायाः लक्ष्यं निर्धारितम् अस्ति। सीवाननगरस्य होटल् सफायर इन् इत्यत्र अपि विशेषकार्यक्रमस्य आयोजनं भविष्यति, यस्मिन् शताधिकाः प्रबुद्धनागरिकाः सम्मिलिताः भविष्यन्ति।

वार्ताहरसम्मेलने विद्यालयस्य माध्यमसमन्वयकः अखिलेशकुमारश्रीवास्तवः सहितं विभिन्नमहावीरीविद्यालयानां प्रधानाचार्याः उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani