विश्वायुर्वेददिवसे मुख्यमन्त्रिणा तमाङ्गेन स्वस्थजीवनशैल्याः आयुर्वेदस्य च प्रचाराय बलं दत्तम्
गंगटोकम्, 23 सितंबरमासः (हि.स.)। सिक्किमराज्यस्य मुख्यमन्त्री प्रेमसिंहतमाङ्गः विश्वायुर्वेददिवसस्य अवसरे सिक्किमनिवासिभ्यः तथा आयुर्वेदस्य प्रचारप्रसारे, अभ्यासे च संलग्नेभ्यः सर्वेभ्यः शुभकामनाः प्रादात्। मुख्यमन्त्री सामाजिकमाध्यमेन प्रसारिते
ps tamang


गंगटोकम्, 23 सितंबरमासः (हि.स.)। सिक्किमराज्यस्य मुख्यमन्त्री प्रेमसिंहतमाङ्गः विश्वायुर्वेददिवसस्य अवसरे सिक्किमनिवासिभ्यः तथा आयुर्वेदस्य प्रचारप्रसारे, अभ्यासे च संलग्नेभ्यः सर्वेभ्यः शुभकामनाः प्रादात्।

मुख्यमन्त्री सामाजिकमाध्यमेन प्रसारिते स्वसन्देशे अवदत् यत् अस्य वर्षस्य विषयः “स्वस्थश्वः कृते आयुर्वेदः” इति समाजस्य परिवर्तमानानां स्वास्थ्यावश्यकतानां पूर्तौ भारतस्य प्राचीनज्ञानपरम्परायाः प्रासङ्गिकतां प्रकाशयति। सः अवदत् यत् आयुर्वेदः केवलं चिकित्सापद्धतिः नास्ति, अपितु जीवनस्य समग्रदृष्टिकोणः अस्ति, यः शरीरस्य, मनसः, प्रकृतेः च मध्ये सन्तुलनं, व्याधिनिवारणं, स्वस्थजीवनशैलीं तथा सामञ्जस्यं प्रति बलं ददाति।

मुख्यमन्त्री अवदत् यत् जैवविविधतायाः, पारम्परिकज्ञानस्य, प्रकृत्या सह गाढसम्बन्धस्य च कारणात् सिक्किमराज्यं स्वस्थजीवनशैल्याः संवर्धने तथा स्वकीयपारम्परिकस्वास्थ्यपद्धतीनां संरक्षणे विशेषां भूमिकां निर्वहितुं शक्नोति। सः स्वस्थजीवनशैलीं, व्याधिनिवारणं, पोषकाहारं तथा औषधीयवनस्पतिसम्पदां उत्तरदायितापूर्णोपयोगं प्रति जनजागरूकतायाः वर्धनाय बलम् अददात्।

मुख्यमन्त्री तमाङ्गः अवदत् यत् आयुर्वेदस्य भविष्यं वैज्ञानिकानुसन्धानस्य, प्रमाणाधारितपद्धतीनां, नवोन्मेषस्य तथा आधुनिकस्वास्थ्यसेवाभिः सह समन्वयस्य माध्यमेन अधिकं सुदृढं कर्तुं शक्यते। एतेन पारम्परिकज्ञानस्य संरक्षणं कृत्वा आयुर्वेदस्य लाभाः अधिकाधिकेषु जनेषु प्रापयितुं शक्यन्ते।

सः अवदत् यत् एतानि प्राधान्यविषयाणि राष्ट्रीयायुर्वेददिवस-२०२६-अभियानस्य अपि महत्त्वपूर्णाङ्गानि सन्ति। वर्तमानभाविपीढीनां हिताय प्राचीनज्ञानस्य उपयोगिप्रवर्धनार्थं तथा स्वास्थ्यस्य, आरोग्यस्य, व्याधिनिवारणस्य च आधारेण संस्कृतेः विकासाय सामूहिकरूपेण कार्यं कर्तुम् सः आह्वानम् अकरोत्।

मुख्यमन्त्री आयुषविभागस्य, आयुर्वेदवैद्यानां, अनुसन्धानकर्तॄणां, स्वास्थ्यकर्मिणां तथा अस्मिन् क्षेत्रे योगदानं ददतां सर्वेषां प्रति कृतज्ञतां प्रकटितवान्। अन्ते सः कामनाम् अकरोत् यत् आयुर्वेदः स्वस्थस्य, सुखिनः, सामञ्जस्यपूर्णस्य च समाजस्य निर्माणे अस्माकं मार्गदर्शनं निरन्तरं करोतु।

Hindusthan Samachar / Dheeraj Maithani