Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २३ सेप्टेम्बरमासः (हि.स.)। अद्यावधि भारतस्य बृहत्तमेन कौशलदलेन सह भारतं वर्ल्डस्किल्स-शाङ्घाई-२०२६ इत्यस्मिन् वैश्विकस्पर्धायाः प्रारम्भं कृतवान्। भारतस्य ७० युवप्रतिभागिनः ६३ कौशलवर्गेषु स्पर्धां कुर्वन्ति। एतत् भारतस्य अद्यावधि बृहत्तमं वर्ल्डस्किल्स-दलम् अस्ति।
कौशलविकास-उद्यमितामन्त्रालयस्य अनुसारं चतुर्दिवसीयायाः प्रतियोगितायाः प्रारम्भः बुधवासरे अभवत्। तत्पूर्वं मङ्गलवासरे सायं शाङ्घाई-वर्ल्ड-एक्स्पो-कल्चरल-सेन्टर इत्यत्र आयोजिते उद्घाटनसमारोहे भारतीयदलेन विश्वस्य विभिन्नदेशानां प्रदेशानां च दलैः सह ‘परेड-ऑफ-नेशन्स’ इत्यस्मिन् भागः गृहीतः। समारोहस्य आयोजनं ६५ तः अधिकैः देशैः प्रदेशैश्च सम्बद्धैः प्रायः १,४०० प्रतियोगिभिः कृतम्।
उद्घाटनसमारोहे भारतीयदलस्य युव-प्रतियोगिनः राष्ट्रध्वजं धृत्वा टीम-इण्डिया इत्यस्याः वर्णयुक्तां वेशभूषां परिधाय समारोहस्थलं प्रति शोभायात्रां कृतवन्तः। अनेन वर्ल्डस्किल्स-प्रतियोगितायाः अष्ट-चत्वारिंशत्तमस्य संस्करणस्य औपचारिकः प्रारम्भः अभवत्।
शाङ्घाईनगरे आयोजिते समारोहे चीनदेशस्य राष्ट्रपतिः शी जिनपिङ्गस्य शुभकामनासन्देशः पठितः। चीनदेशस्य प्रधानमन्त्री ली कियाङ्गः समारोहे उपस्थितः आसीत् तथा च तेन प्रतियोगितायाः औपचारिकः शुभारम्भः घोषितः।
भारतीयदलेन सह वर्ल्डस्किल्स-इण्डियायाः आधिकारिकप्रतिनिधिः कौशलविकास-उद्यमितामन्त्रालयस्य वरिष्ठा आर्थिकसल्लाहकारा मनीषा-शर्मा तथा प्रशिक्षणमहानिदेशालयस्य महा-निदेशकः राष्ट्रियकौशलसङ्गठनस्य मुख्यकार्यकारी-अधिकारी च दिलीप-कुमारः अपि उपस्थितौ आस्ताम्।
दिलीप-कुमारः अवदत् यत् भारतीय-प्रतियोगिनः मासानां गहन-तकनीकी-प्रशिक्षणानन्तरं, पुनः पुनः अभ्यासं कृत्वा तथा विशेषज्ञानां उद्योगसहभागिनां च मार्गदर्शनेन शाङ्घाईनगरं प्राप्तवन्तः। अधुना प्रतियोगितायाः चतुर्षु दिनेषु सटीकता, धैर्यं निरन्तरं च उत्कृष्टप्रदर्शनं प्रति ध्यानं केन्द्रितम् अस्ति। ७० प्रतियोगिषु १४ प्रतियोगिनः औद्योगिक-प्रशिक्षणसंस्थाभ्यः सन्ति।
मनीषा-शर्मा अवदत् यत् उद्घाटनसमारोहे टीम-इण्डिया इत्यस्याः शोभायात्रां दृष्ट्वा गर्वस्य क्षणः आसीत्। भारतस्य ७० प्रतियोगिनः कुशलस्य आत्मविश्वासपूर्णस्य च भारतस्य आकाङ्क्षाणां प्रतिनिधित्वं कुर्वन्ति। प्रतियोगितायाः माध्यमेन ते विश्वस्य श्रेष्ठप्रतियोगिभिः सह स्वक्षमतायाः तुलनां कर्तुं, वैश्विकप्रतिभाभ्यः शिक्षितुं तथा भारतस्य कौशलविकासतन्त्रात् उद्भव-मानायाः प्रतिभायाः प्रदर्शनं कर्तुम् अवसरं प्राप्स्यन्ति।
अस्मिन् वर्षे भारतस्य सहभागितायाः स्तरस्य व्यापकतायाश्च विस्तारः अभवत्। भारतं प्रथमवारं ११ नूतनेषु कौशलवर्गेषु भागं गृह्णाति। एतेषु दन्त-कृत्रिमाङ्ग-निर्माणम्, डिजिटल-अन्तः-क्रियात्मक-माध्यम-रचना, बुद्धिम-त्सुरक्षा-प्रौद्योगिकी, भूदृश्य-उद्यान-निर्माणम्, प्रकाश-विद्युत्-प्रौद्योगिकी, खुदरा-विक्रयः, मानवरहित-वायुप्रणाली, औद्योगिक-यान्त्रिकी, सॉफ्टवेयर-परीक्षणम्, भारीवाहन-प्रौद्योगिकी, विमान-रक्षणं च अन्तर्भवन्ति।
भारतीयदलस्य शोभायात्रायाम् उपस्थितिः देशस्य कौशलविकासतन्त्रस्य विविधतां क्षमतां च दर्शयति। प्रतियोगिनां चयनं कठोर-प्रक्रियया कृतम्। ततः तेभ्यः बहुमासपर्यन्तं विशेषप्रशिक्षणं, गहना-भ्यासः अन्ता-राष्ट्रियमानकानुरूपा च सज्जता कारिता। अस्याः सम्पूर्णप्रक्रियायाः राज्यसर्वकारैः, सेक्टर-स्किल-काउ-न्सिल-संस्थाभिः, प्रशिक्षणसंस्थाभिः, उद्योगसहभागिभिः, विशेषज्ञैः मार्गदर्शकैश्च सहयोगः प्राप्तः।
वर्ल्डस्किल्स-प्रतियोगिता प्रत्येकं द्वितीय-वर्षे वर्ल्डस्किल्स-इण्टरनेशनल्-संस्थया आयोज्यते। एषा व्यावसायिक-शिक्षायाः, प्रशिक्षणस्य कौशलो-त्कृष्टतायाश्च विश्वस्य बृहत्तमा अन्ताराष्ट्रिय-मञ्चः अस्ति। अस्यां युवव्यावसायिकाः स्वकीयां तकनीकी-दक्षतां, सटीकतां, सृजनशीलतां, शिल्प-कौशलं नवोन्मेषं च प्रदर्शयन्ति तथा वैश्विकमानकानाम् आधारेण स्वक्षमतायाः परीक्षणं कुर्वन्ति।
प्रतियोगिताः बुधवासरे प्रातः नववादने शाङ्घाईनगरे स्थिते नेशनल-एग्जिबिशन-एण्ड-कन्वेन्शन-सेन्टर इत्यत्र प्रारब्धाः तथा २६ सेप्टेम्बरपर्यन्तं चलिष्यन्ति। ततः २७ सेप्टेम्बरे समापनसमारोहः आयोजितः भविष्यति। वर्ल्डस्किल्स-शाङ्घाई-२०२६ इत्यस्य अन्तर्गतम् वर्ल्डस्किल्स-एक्स्पो तथा वर्ल्डस्किल्स-कॉन्फ्रेन्स इत्येतयोरपि आयोजनं क्रियते। तत्र युवप्रतिभानां, नीतिनिर्मातॄणां, शिक्षकाणां उद्योगजगतः प्रतिनिधीनां च कौशलविकासस्य तकनीकी-व्यावसायिकशिक्षायाः च भविष्यस्य विषये विचारविनिमयस्य अनुभवविनिमयस्य च अवसरः प्राप्स्यति।
भारतं वर्ल्डस्किल्स-लियोन्-२०२४ इत्यस्मिन् स्वस्य प्रदर्शनस्य उन्नतिं कर्तुं प्रयतिष्यते। लियोन्-प्रतियोगितायां भारतं चत्वारः कांस्यपदकान् द्वादश उत्कृष्टता-पदकानि च प्राप्तवान् आसीत्। शाङ्घाईनगरे भारतीययुवव्यावसायिकेभ्यः विश्वस्य श्रेष्ठप्रतियोगिभिः सह स्वक्षमतायाः परीक्षणं कर्तुं तथा देशस्य कुशलप्रतिभां, अनुशासनं भविष्याय सज्जां क्षमतां च प्रदर्शयितुम् अवसरः प्राप्स्यति।
Hindusthan Samachar / Divya Ranjan