Enter your Email Address to subscribe to our newsletters

उदयपुरम्, २३ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदिनः विकसित-भारतस्य मन्त्रं ‘वोकल फॉर लोकल’ तथा ‘मेक इन इण्डिया’ इत्यस्य अवधारणां केन्द्रे निधाय उदयपुरे २ अक्टोबरतः ५ अक्टोबरपर्यन्तं चतुर्दिवसीयः स्वदेशी-मेलापकः-२०२६ आयोज्यते। अयं मेलापकः स्वदेशी-स्थानीय-रोजगारं व्यवसायं च प्रोत्साहयिष्यति, नागरिकेषु जागरूकतां जनयितुं च माध्यमं भविष्यति।
एतत् उदयपुरस्य लोकसभासदस्यः डॉ. मन्नालाल-रावतः बुधवासरे मेलापक-स्थले भूमिपूजनात् पूर्वं पत्रकारैः सह संवादं कुर्वन् उक्तवान्। राजस्थान-कृषि-महाविद्यालयस्य प्राङ्गणे आयोज्यमानस्य अस्य बृहद्-औद्योगिक-प्रदर्शनस्य विषये सः अवदत् यत् नवदिल्ल्याम् आयोजिता सांसदानां कार्यशाला अनन्तरं प्रधानमन्त्रिण: नरेन्द्रमोदिनः प्रेरणा अस्य मेलापकस्य आधारः अभवत्। बस्तरे आयोजितस्य एतादृशस्य जनपदस्तरीयस्य मेलापकस्य उदाहरणं दत्त्वा सः अवदत् यत् तदनन्तरं तत्र स्थानीयस्तरस्य कौशलाय नूतनाः सम्भावनाः प्राप्ताः।
अस्य मेलापकस्य उद्देश्यं विचारनिर्माणात् स्टार्टअप-उद्यमेभ्यः निर्यातपर्यन्तं तथा निर्यातात् अग्रे विदेशेषु तस्य प्रदर्शनकक्षाणां स्थापनापर्यन्तं मार्ग-नक्शायाः विषये विचारः करणीयः इति अस्ति। सः उदाहरणरूपेण अवदत् यत् मोलेला-शिल्पस्य प्रदर्शनकक्षः विदेशे अपि उद्घाटितः अस्ति। एतादृशः लाभः प्रत्येकस्मै स्थानीय-उत्पादाय प्राप्नुयात्, अस्मिन् विषये चर्चा करणीया अस्ति। मेलापकस्य अवधौ एव उदयपुर-अञ्चले औद्योगिक-विकासस्य आवश्यकतानां सूची अपि सज्जीकरिष्यते। आदिवासी-अञ्चलस्य दृष्ट्या आदिवासीक्षेत्रेषु कार्यरताः स्वयंसेवीसंस्थाः तथा घुमन्तू-समुदायस्य संस्थाश्च अपि आमन्त्रिताः सन्ति। ‘शी-मार्ट्’ तथा जीआई-चिह्नीकरणेऽपि विशेषं ध्यानं दीयते।
पत्रकारसम्मेलने नवनिर्वाचितः महापौरः पारस-सिंघवी अवदत् यत् अयं मेलापकः उदयपुर-अञ्चलस्य उद्यमिनां व्यवसायिनां च विकासाय महत्त्वपूर्णं पदक्षेपं सिद्धः भविष्यति। भाजपा-नगराध्यक्षः गजपाल-सिंह-राठौडः, यूसीसीआई-उपाध्यक्षः अंशुल-मोगरा, पूर्वराज्यमन्त्री हरीश-राजानी, लघु-उद्योग-भारत्याः अध्यक्षः राजेन्द्र-सुराणः, वरिष्ठभाजपानेता चन्द्रगुप्त-सिंह-चौहानश्च अपि व्यवसायिनः मेलापके वर्धमानरूपेण भागं ग्रहीतुं आहूतवन्तः।
मेलापकस्य संयोजकः मनोज-जोशी अवदत् यत् २ अक्टोबरे १५० छात्राभिः समवेतस्वरेण वन्दे मातरम् इति गीतस्य गायनेन मेलापकस्य उद्घाटनं भविष्यति। ३ अक्टोबरे मार्गसुरक्षां प्रति नागरिक-जागरूकता-दिवसः आयोजयिष्यते। ४ अक्टोबरे अर्बन्-स्केचर्-समूहः चित्र-कलया सामाजिकजागरूकतायाः सन्देशं दास्यति। तथैव ५ अक्टोबरे विश्व-वास्तुकला-दिवसे प्रधानमन्त्रीमोदिनः ‘विरासत भी—विकास भी’ इति मन्त्रं केन्द्रे निधाय परिचर्चा आयोजयिष्यते।
मेलापके स्टार्टअप-उद्यमिनः, निर्मातारः, गृह-कुटीर-उद्योगाः, सेवाप्रदातारः, व्यापारिणः, स्वयं-सहायता-समूहाः, व्यवसायिनः महिला-उद्यमिन्यश्च भागं ग्रहीतुं शक्नुवन्ति। प्रतिभागिभ्यः नूतनसम्पर्कानां व्यापारिकसम्भावनानां च सह व्यवसायविस्तारस्य, नवाचारस्य, प्रौद्योगिकीयसमाधानैः सह सम्पर्कस्य तथा राष्ट्रिय-वैश्विक-विपण्येषु प्रवेशस्य अवसराः प्रदातुं योजना अस्ति।
आयोजनस्य सहयोगिषु लघु-उद्योग-भारती, उदयपुर-चेम्बर-ऑफ-कॉमर्स-एण्ड्-इण्डस्ट्रीज, कलडवास-चेम्बर-ऑफ्-कॉमर्स-एण्ड्-इण्डस्ट्रीज्, उदयपुर-मार्बल-एसोसिएशन, उदयपुर-मार्बल-प्रोसेसर-समितिः, होटल-फेडरेशन-ऑफ-राजस्थान, होटल-एसोसिएशन-उदयपुरम् तथा होटल्-संस्थानं दक्षिणी-राजस्थानं च सन्ति। राजस्थान-कृषिमहाविद्यालयं तथा महाराणा-प्रताप-कृषि-प्रौद्योगिकी-विश्वविद्यालयश्च आयोजनस्य सहभागिनौ स्तः।
भूमिपूजनकार्यक्रमे कलडवास-चेम्बर-अध्यक्षः गिरीश-शर्मा, होटल्-एसोसिएशन इत्यस्य उपाध्यक्षः रॉबिन-सिंहः, महिला-एककस्य अध्यक्षा सीमा-पारिखः, डॉ. रजनी-रावतः, जनपदप्रवक्ता डॉ. ओम-पारीकः, नेक्सनोसस्य कमलेश-शर्मा, बी.एम.-भाटी, अभिमन्यु-सिंहः, अवनीश-व्यासः, उमा-प्रताप-सिंहः, जीत-चौधरी, दीपक-चुघः, हितेश-भोई, चर्चिल-जैनः इत्यादयः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan