क्रीडामहाकुम्भे विधायकचैम्पियनशिपस्य शुभारम्भः, क्रीडकैः प्रदर्शितं स्वीयं कौशलम्
हरिद्वारम्, 23 सितंबरमासः (हि.स.)। क्रीडामहाकुम्भ २०२६ इत्यस्य अन्तर्गतं हरिद्वारविधानसभाक्षेत्रस्य विधायकचैम्पियनशिपप्रतियोगितायाः शुभारम्भः बुधवासरे गुरुकुलकाङ्गडीविश्वविद्यालयस्य दयानन्दक्रीडाङ्गणे अभवत्। मन्त्रिमण्डलस्य मन्त्री मदनकौशिकेन प्र
विधायक का स्वागत करते हुए


हरिद्वारम्, 23 सितंबरमासः (हि.स.)।

क्रीडामहाकुम्भ २०२६ इत्यस्य अन्तर्गतं हरिद्वारविधानसभाक्षेत्रस्य विधायकचैम्पियनशिपप्रतियोगितायाः शुभारम्भः बुधवासरे गुरुकुलकाङ्गडीविश्वविद्यालयस्य दयानन्दक्रीडाङ्गणे अभवत्। मन्त्रिमण्डलस्य मन्त्री मदनकौशिकेन प्रतियोगितायाः उद्घाटनं कृतम्।

प्रतियोगितायाम् एथलेटिक्स्, कबड्डी, खोखो, मुर्गाझपट्, वालीबाल् पिट्ठू इत्यादिषु विविधक्रीडासु क्रीडकाः सहभागी अभवन्। बालिकानां १०० मीटर् धावनप्रतियोगितायां मुस्काने प्रथमस्थानं प्राप्तम्, राधिकायाः द्वितीयं मान्यतायाः तृतीयं च स्थानं प्राप्तम्। तथैव बालिकानां ३००० मीटर् धावनप्रतियोगितायाम् अपर्णायादवेन प्रथमस्थानं प्राप्तम्। मुस्काने द्वितीयं सञ्जीवनी तृतीयं च स्थानं प्राप्तवती।

बालकानां वालीबालप्रतियोगितायां महर्षिविद्यामन्दिरेण प्रथमस्थानं प्राप्त्वा स्वीयं प्रभुत्वं प्रदर्शितम्। श्रीगुरुरामरायविद्यालयः द्वितीयस्थाने तथा आरआरविद्यालयः तृतीयस्थाने स्थितौ।

खोखोप्रतियोगितायां सरस्वतीविद्यामन्दिरं मायापुरं प्रथमस्थानं प्राप्तवान्। सरस्वतीविद्यामन्दिरं सेक्टरद्वितीयं द्वितीयस्थाने तथा धूमसिंहस्मृतिविद्यालयः तृतीयस्थाने स्थितः।

प्रतियोगितायाः समये क्रीडकानाम् उत्साहः दर्शनीयः आसीत्। अतिथिभिः प्रतिभागिनां प्रदर्शनस्य प्रशंसा कृता तथा क्रीडाः युवानां सर्वाङ्गीणविकासस्य महत्त्वपूर्णं माध्यमम् इति प्रतिपादितम्।

अस्मिन् अवसरे ब्लॉकप्रमुखा आशानेगी, जिलायुवकल्याणाधिकारी मुकेशभट्टः, क्षेत्रीययुवकल्याणाधिकारी सोनूकुमारः इत्यादयः क्रीडाप्रशिक्षकाः, शिक्षकाः पीआरडीकर्मचारिणश्च उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani