राष्ट्रपतिना, उपराष्ट्रपतिना, लोकसभाध्यक्षेण च एशियाईक्रीडासु भारतीयविजेतृभ्यः शुभकामनाः प्रदत्ताः
नव दिल्ली, 24 सितंबरमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मुः, उपराष्ट्रपतिः सी. पी. राधाकृष्णन् तथा लोकसभाध्यक्षः ओमबिरला च गुरुवासरे एशियाईक्रीडासु भारतीयविजेतृभ्यः हार्दिकाः शुभकामनाः अभिनन्दनं च प्रदत्तवन्तः। राष्ट्रपतिः मुर्मुः एक्स इत्यत्र ल
प्रतीकात्मक


नव दिल्ली, 24 सितंबरमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मुः, उपराष्ट्रपतिः सी. पी. राधाकृष्णन् तथा लोकसभाध्यक्षः ओमबिरला च गुरुवासरे एशियाईक्रीडासु भारतीयविजेतृभ्यः हार्दिकाः शुभकामनाः अभिनन्दनं च प्रदत्तवन्तः।

राष्ट्रपतिः मुर्मुः एक्स इत्यत्र लिखितवती— “एशियाईक्रीडा २०२६ मध्ये वुशू-क्रीडायाः महिलानां ६० किलोग्राम-साण्डा-वर्गे रजतपदकं विजित्य रोशिबिना देवी नाओरेम, पुरुषाणां डबलस्कल्स्-वर्गे कांस्यपदकं विजित्य सतनामसिंहः सलमानखानः च तथा कांस्यपदकविजेत्रे भारतीयपुरुषबैडमिण्टनदलाय च हार्दिकाः शुभकामनाः। निरन्तरं त्रिषु एशियाईक्रीडासु त्रयाणां पदकानां प्राप्तिः भारतीयवुशू-क्रीडायै गौरवपूर्णा उपलब्धिः ऐतिहासिकं च मीलपत्थरम् अस्ति। भवत्याः प्रेरणादायिन्यां यात्रायां इतोऽपि बहवः गौरवपूर्णाः क्षणाः आगच्छन्तु। सतनामसिंहस्य सलमानखानस्य च प्रदर्शनं दलकार्यस्य, सहनशक्तेः प्रतिबद्धतायाः च दृढतां प्रदर्शयति, या नौकायानक्रीडायै आवश्यकाऽस्ति। युवाभ्यां भविष्ये इतोऽपि महत्तराः सफलताः प्राप्यन्ताम्। पुरुषबैडमिण्टनदलस्य एषा प्रशंसनीया उपलब्धिः तस्य दलस्य दृढसङ्कल्पं, सहनशक्तिं संघर्षभावनां च प्रदर्शयति। अस्यां गौरवपूर्णायां सफलतायां दलस्य प्रत्येकस्य सदस्यस्य महत्त्वपूर्णं योगदानम् अस्ति। भविष्यस्य प्रयासेभ्यः सम्पूर्णदलाय हार्दिकाः शुभकामनाः।”

उपराष्ट्रपतिः उक्तवान् यत् सतनामसिंहस्य सलमानखानस्य च पदकविजयः तयोः उत्कृष्टं दलकार्यं सहनशक्तिं च प्रदर्शयति। अपरतः रोशिबिनायाः निरन्तरं तृतीयेषु एशियाईक्रीडासु पदकविजयः भारतीयवुशू-क्रीडायै ऐतिहासिकः उपलब्धिक्षणः अस्ति। ते भविष्येऽपि देशाय बहूनि गौरवपूर्णानि क्षणानि आनयिष्यन्तीति आशा अस्ति।

लोकसभाध्यक्षः ओमबिरला उक्तवान् यत् रोशिबिनादेव्याः एषा उपलब्धिः भारताय अत्यन्तं गौरवस्य क्षणम् अस्ति तथा एशियाईमञ्चे तस्याः समर्पणस्य, दृढसङ्कल्पस्य निरन्तरतायाश्च प्रमाणम् अस्ति। अपरतः पुरुषाणां डबलस्कल्स्-नौकायानस्पर्धायां कांस्यपदकविजेतृभ्यां सतनामसिंहेन सलमानखानेन च उत्कृष्टं समन्वयं, शक्तिं, लयबद्धतां दृढसङ्कल्पं च प्रदर्शयित्वा पदकेषु स्थानं प्राप्तम् तथा भारतस्य पदकतुलायां एकं पदकम् अधिकं योजितम्। अस्यै शानदारायै उपलब्धये सतनामसिंहाय सलमानखानाय च अभिनन्दनम्। तौ एवमेव प्रेरणां दद्यातां भारतस्य मानं च वर्धयेताम्।

रक्षामन्त्री राजनाथसिंहः उक्तवान् यत् नाओरेम रोशिबिना देवी निरन्तरं त्रिषु एशियाईक्रीडासु पदकं विजित्य पदकविजेत्र्याः प्रथमभारतीयवुशूक्रीडापटुः अभवत्। एषा तस्याः निरन्तरस्य उत्कृष्टप्रदर्शनस्य दृढसङ्कल्पस्य च उत्तमा निदर्शना अस्ति। तस्याः प्रदर्शनं भारतीयक्रीडकानां नवपीढीं उत्कृष्टप्रदर्शनाय प्रेरयिष्यति।

-----------

Hindusthan Samachar / Dheeraj Maithani