नशामुक्तपञ्जाब-अभियानस्य ३० सेप्टेम्बरमासे जालन्धरे समापनम्, अमितशाहः विशालां जनसभां सम्बोधयिष्यति
नवदिल्ली, २४ सेप्टेम्बरमासः (हि.स.)। पञ्जाबे भारतीयजनतापक्षस्य द्वारा सञ्चाल्यमानस्य ‘नशामुक्तपञ्जाब’ अभियानस्य समापनं ३० सेप्टेम्बरमासे जालन्धरे भविष्यति। अस्मिन् अवसरे केन्द्रीयगृहमन्त्री अमितशाहः जनसभां सम्बोधयिष्यति। अभियानस्य अन्तर्गतं राज्यस्
Heavy rains in Nepal threaten flood in Bihar, Amit Shah speaks to CM


नवदिल्ली, २४ सेप्टेम्बरमासः (हि.स.)। पञ्जाबे भारतीयजनतापक्षस्य द्वारा सञ्चाल्यमानस्य ‘नशामुक्तपञ्जाब’ अभियानस्य समापनं ३० सेप्टेम्बरमासे जालन्धरे भविष्यति। अस्मिन् अवसरे केन्द्रीयगृहमन्त्री अमितशाहः जनसभां सम्बोधयिष्यति। अभियानस्य अन्तर्गतं राज्यस्य विभिन्नेभ्यः भागेभ्यः प्रचलिताः चतस्रः मादकद्रव्यविरोधियात्राः अपि तस्मिन्नेव दिने जालन्धरं प्राप्य एकत्र समाप्स्यन्ते।

भारतीयजनतापक्षस्य सूत्रैः कथितं यत् ३० सेप्टेम्बरमासे चतसृणां यात्राणां जालन्धरं प्राप्तेः अनन्तरं समापनकार्यक्रमः आयोजितः भविष्यति। ततः अमितशाहः विशालां जनसभां सम्बोधयिष्यति। जालन्धर-फगवाडामार्गस्य समीपे सभायै स्थलस्य निर्धारणं कृतम् अस्ति तथा च सङ्गठनस्य स्थानीयैककेन सज्जताः आरब्धाः सन्ति।

भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः नितिननवीनः १८ सेप्टेम्बरमासे पठान-कोटस्य माधोपुरात् विभिन्नमार्गैः ‘नशामुक्तपञ्जाबयात्राः’ प्रारब्धवान् आसीत्। एताः यात्राः समग्रतया त्रयोदश-दिनानि यावत् प्रचलिष्यन्ति। एतासां यात्राणां राज्यस्य सर्वासु ११७ विधानसभा-क्षेत्रेषु प्रवेशस्य योजना अस्ति। चतसृणां यात्राणां सम्मिलितरूपेण प्रायः ४००० किलोमीटर-परिमिता दूरी निर्धारिता अस्ति।

प्रथमायात्रायाः प्रारम्भः पठानकोटस्य माधोपुरस्थितात् एकतास्थलात् अभवत्। अन्याः यात्राः फतेहगढसाहिबतः, फाजिल्कातः तथा तलवण्डीसाबोतः प्रारब्धाः। अभियानस्य उद्देश्यं मादक-द्रव्याणां विरुद्धं जनजागरूकतां वर्धयितुं तथा च अस्मिन् विषये व्यापक-जनसहभागितां निर्मातुम् इति कथितम् अस्ति।

अयं कार्यक्रमः अभियानस्य अन्तिमचरण-रूपेण दृश्यते। अपरतः २०२७ तमे वर्षे पञ्जाबविधानसभानिर्वाचनात् पूर्वं मादकद्रव्याणां विषयः राज्यस्य राजनीतौ प्रमुखविषयरूपेण वर्तते। भारतीयजनता-पक्षेण अस्य अभियानस्य सम्बन्धः मादकद्रव्याणां विरुद्धं सामाजिकजन-जागरूकतया स्थापयित्वा राज्यव्यापिरूपेण अभियानं सञ्चालितम् अस्ति। पक्षस्य नेतारः उक्तवन्तः यत् मादकद्रव्य-समस्यायाः निवारणाय केवलं विधिव्यवस्थासम्बद्धा कार्यवाही पर्याप्ता नास्ति, अपि तु जनजागरूकता, उपचारः, पुनर्वासः, युवजनानां कृते शिक्षा तथा रोजगारस्य अवसराः इत्येतेषाम् अपि विषये ध्यानं दातव्यम्।

Hindusthan Samachar / Divya Ranjan