मुख्यमन्त्रिणा बृहद् स्वास्थ्यपरीक्षणशिविरस्य शुभारम्भः कृतः
नवदिल्ली, 24 सितंबरमासः (हि.स.)।दिल्लीप्रदेशस्य मुख्यमन्त्री रेखागुप्ता गुरुवासरे शालीमारबागविधानसभाक्षेत्रस्य हैदरपुरे स्थिते आयुर्वेदिकचिकित्सालये निःशुल्कस्य बृहद् स्वास्थ्यपरीक्षणशिविरस्य शुभारम्भं कृतवती। सा उक्तवती यत् स्वस्थदिल्ली सशक्तदिल्ल
दिल्ली की मुख्यमंत्री रेखा गुप्ता गुरुवार को हैदरपुर स्थित आयुर्वेदिक अस्पताल में निशुल्क मेगा स्वास्थ्य जांच शिविर का शुभारंभ करते हुए


नवदिल्ली, 24 सितंबरमासः (हि.स.)।दिल्लीप्रदेशस्य मुख्यमन्त्री रेखागुप्ता गुरुवासरे शालीमारबागविधानसभाक्षेत्रस्य हैदरपुरे स्थिते आयुर्वेदिकचिकित्सालये निःशुल्कस्य बृहद् स्वास्थ्यपरीक्षणशिविरस्य शुभारम्भं कृतवती। सा उक्तवती यत् स्वस्थदिल्ली सशक्तदिल्ली इति अस्माकं सङ्कल्पः ‘सेवासङ्कल्पाभियानम्’ इत्यस्य माध्यमेन जनजनं प्रति प्राप्यते।

मुख्यमन्त्री सामाजिकसञ्चारमाध्यमस्य एक्स इत्यत्र प्रकाश्यमाने सन्देशे उक्तवती यत् अस्मिन् स्वास्थ्यपरीक्षणशिविरे विभिन्नस्वास्थ्यपरीक्षणानि, विशेषज्ञचिकित्सकानां परामर्शः आवश्यकं स्वास्थ्यसम्बन्धि मार्गदर्शनं च एकस्मिन् स्थाने निःशुल्करूपेण उपलब्धं वर्तते। सा क्षेत्रवासिभ्यः अस्मिन् शिविरे आगत्य स्वास्थ्यपरीक्षणं कारयितुं अपि आग्रहं कृतवती।

---------------

Hindusthan Samachar / Dheeraj Maithani