Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 24 सितंबरमासः (हि.स.)। ओडिशाराज्यस्य मुख्यमन्त्री मोहनचरणमाझी एशियाईक्रीडा २०२६ मध्ये महिलानां सान्डा ६० किलोग्रामवर्गे रजतपदकविजेत्रीम् भारतीयां वुशु-क्रीडिकां नाओरेमरोशिबिनादेवीं हार्दिकं शुभकामनां प्रदत्तवान्।
मुख्यमन्त्री माझी सामाजिकमाध्यमे प्रकाशितेन सन्देशेन रोशिबिनादेव्याः उपलब्धेः प्रशंसां कुर्वन् तस्याः दृढसङ्कल्पस्य संघर्षशीलभावनायाश्च प्रशंसाम् अकरोत्। तेन उक्तं यत् रोशिबिनादेव्याः अनेन गौरवपूर्णेन उपलब्ध्या सम्पूर्णं राष्ट्रं गौरवान्वितम् अस्ति।
मुख्यमन्त्रिणा स्वकीयसन्देशे उक्तम्, “एशियाईक्रीडा २०२६ मध्ये महिलानां सान्डा ६० किलोग्रामवर्गे रजतपदकविजयाय नाओरेमरोशिबिनादेव्यै हार्दिकाः शुभकामनाः।”
माझिना भारतीयक्रीडकायाः उत्कृष्टप्रदर्शनस्य प्रशंसा कुर्वता तस्यै उज्ज्वलभविष्यस्य कामना कृता। तेन आशा व्यक्ता यत् रोशिबिनादेवी आगामीकालेऽपि राष्ट्रस्य कृते बहूनि गौरवपूर्णानि उपलब्धिफलानि प्राप्स्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani