Enter your Email Address to subscribe to our newsletters

भारतीय-राजनैतिक-इतिहासे २५ सेप्टेम्बरमासस्य तिथिः द्वयोः प्रमुखनेत्रयोः जन्मदिवसकारणेन विशेषमहत्त्वं धारयति। अस्मिन्नेव दिने १९१६ तमे वर्षे पण्डितदीनदयालोपाध्यायस्य तथा १९१४ तमे वर्षे देशस्य पूर्वोपप्रधानमन्त्री चौधरीदेवीलालस्य जन्म अभवत्। उभौ नेतारौ विभिन्नेषु क्षेत्रेषु सक्रियौ भूत्वा भारतीय-राजनीतौ स्वकीयं विशिष्टं परिचयं स्थापितवन्तौ।
पण्डितदीनदयालोपाध्यायस्य जन्म २५ सेप्टेम्बरमासे १९१६ तमे वर्षे मथुरायाम् अभवत्। ते विचारकः, दार्शनिकः भारतीय-जनसङ्घस्य च सहसंस्थापकेषु अन्यतमः आसीत्। स्नातक-अध्ययनस्य अवधौ तेषां सम्पर्कः राष्ट्रियस्वयंसेवकसङ्घेन सह अभवत्, ततः परं ते सङ्घस्य प्रचारकः अभवन्। तस्मात् पूर्वं १९३९ तथा १९४२ तमे वर्षे तेन सङ्घस्य प्रशिक्षणं प्राप्तम् आसीत्। १९५१ तमे वर्षे उपाध्यायः डॉ. श्यामाप्रसादमुखर्जिना सह भारतीय-जनसङ्घस्य स्थापनायां महत्त्वपूर्णां भूमिकां निर्वुढवान्।
अपरतः चौधरीदेवीलालस्य जन्म २५ सेप्टेम्बरमासे १९१४ तमे वर्षे हिसार-जनपदस्य तेजाखेडा-ग्रामे अभवत्। हरियाणाराज्यस्य राजनीतौ ते लोक-प्रियतया ‘ताऊ देवीलाल’ इति नाम्ना प्रसिद्धाः आसन्। राज्यस्य राजनीतौ तेषां प्रभावः व्यापकः आसीत्। एतस्य राजनीतिकप्रभावस्य कारणेन ते राष्ट्रिय-राजनीतौ अपि महत्त्वपूर्णां भूमिकां निर्वुढवन्तः।
महत्त्वपूर्णाः घटनाः
१३४० — इङ्ग्लैण्ड-फ्रान्स-देशाभ्यां ‘निरस्त्रीकरण-सन्धौ’ हस्ताक्षरं कृतम्।१५२४ — वास्को-द-गामा अन्तिमवारं वायसरायरूपेण भारतम् आगतवान्।१६३९ — अमेरिकादेशे प्रथमस्य मुद्रणयन्त्रस्य प्रारम्भः अभवत्।१६५४ — इङ्ग्लैण्ड-डेनमार्क-देशाभ्यां व्यापारसन्धौ हस्ताक्षरं कृतम्।१८४६ — अमेरिकीसैन्येन मेक्सिकोदेशस्य मोन्तेरेय-नगरं स्वाधीनं कृतम्।१८९७ — ब्रिटेनदेशे प्रथमस्य बससेवायाः प्रारम्भः अभवत्।१९११ — फ्रान्सदेशीयस्य ‘लिब्रीटे’ युद्धपोतस्य टूलॉन-बन्दरगाहे विस्फोटेन २८५ जनाः मृताः।१९५५ — रॉयल-जॉर्डन-वायुसैन्यस्य स्थापना अभवत्।१९७४ — पञ्चम-पञ्चवर्षीय-योजनायाः समाप्तिः अभवत्।१९७४ — अमेरिकादेशेन नेवाडा-परीक्षणस्थले परमाणुपरीक्षणं कृतम्।१९८१ — मध्य-अमेरिकादेशः बेलीजः संयुक्तराष्ट्रसङ्घस्य सदस्यः अभवत्।१९८४ — मिस्र-जॉर्डन-देशयोः मध्ये कूटनीतिकसम्बन्धाः पुनः स्थापिताः।१९८५ — अकालीदलेन पञ्जाबराज्यस्य निर्वाचने विजयः प्राप्तः।१९९२ — चीनदेशेन लोप-नोर-स्थले परमाणुपरीक्षणं कृतम्।१९९२ — अमेरिकी-अन्तरिक्ष-संस्था नासा द्वारा ‘मार्स ऑब्जर्वर’ अन्तरिक्षयानं प्रेषितम्।१९९९ — अष्टमानां सार्क-क्रीडानां काठमाण्डूनगरे उद्घाटनम् अभवत्।२००० — यमने रिफ्ट-वैली-ज्वरेण २११ जनाः मृताः।२००० — सिडनी-ओलम्पिक-क्रीडासु ४०० मीटर-धावने माइकल-जॉनसनः तथा कैथी-फ्रीमैनः स्वर्णपदकं प्राप्तवन्तौ।२००१ — सऊदी-अरबदेशेन तालिबान-मिलिशियया सह सम्बन्धः विच्छिन्नः कृतः।२००३ — गयूमेन मालदीवदेशस्य राष्ट्रपतिनिर्वाचने षष्ठवारं विजयः प्राप्तः।२००६ — पाकिस्तानस्य ६० वर्षीय-इतिहासे प्रथमवारं सिन्ध-प्रान्तस्य थारपाकर-जनपदस्य निवासी हिन्दुयुवकः दानेशः पाकिस्तानीसैन्ये सम्मिलितः।२००६ — यमनस्य निवर्तमानराष्ट्रपतिः अली अब्दुल्ला सालेहः पुनः देशस्य राष्ट्रपतित्वेन निर्वाचितः घोषितः।२००६ — अन्तरिक्षयात्रां कृतवती ईरानस्य प्रथममहिला अनुशेह-अंसारी स्वदेशस्य इतिहासे नूतनमध्यायं लिखितवती।२००६ — दलाईलामायै भारतीयनागरिकतां प्रदातुं याचना कृता।२००७ — पूर्वप्रधानमन्त्री शेरबहादुरदेउबा-नेतृत्वाधीनस्य नेपाली-काङ्ग्रेस-डेमोक्रेटिक-दलस्य काङ्ग्रेसे विलयः अभवत्।२००८ — चीनदेशेन ‘शेनझोउ-७’ अन्तरिक्षयानस्य प्रक्षेपणं कृतम्।२००९ — भारतीयप्रवर्तननिदेशालयेन प्रायः ५,००० कोटिरूप्यकाणां हवाला-जालस्य प्रस्तुति: कृतः।२०१८ — महेन्द्रसिंहधोनी दुबईनगरे एशिया-कप्-क्रीडायां अफगानिस्तानस्य विरुद्धे सामन्ये भारतीयक्रिकेट-दलस्य नेतृत्वं कृत्वा २०० एकदिवसीय-अन्ताराष्ट्रिय-सामनेषु नेतृत्वं कृतवान् प्रथमः भारतीयः अभवत्।२०२० — राष्ट्रिय-आयुर्विज्ञान-आयोगः (एनएमसी) अस्तित्वम् आगतः। अनेन भारतीय-आयुर्विज्ञान-परिषदः स्थानं गृहीतम्। भारतस्य चिकित्साशिक्षणसंस्थानां चिकित्साव्यावसायिकानां च नियमनाय नीतिनिर्माणस्य अधिकारः आयोगाय प्रदत्तः।
जन्म
१९१४ — चौधरीदेवीलालः — भारतस्य पूर्वोपप्रधानमन्त्री, भारतीय-राजनीतेः पुरोधा, कृषकाणां हितैषी, महान् स्वतन्त्रतासेनानी तथा हरियाणाराज्यस्य निर्मातृषु अन्यतमः।१९१६ — दीनदयालोपाध्यायः — महान् चिन्तकः सङ्गठकश्च।१९२० — सतीशधवनः — भारतस्य प्रसिद्धः रॉकेट्-विज्ञानी।१९२५ — भाऊरावदेवाजीखोब्रागडे — भारतीय-रिपब्लिकन-पार्टी इत्यस्य राजनीतिज्ञः।१९२७ — जगमोहनमल्होत्रा — भारतीय-प्रशासनिक-सेवायाः पूर्वाधिकारी तथा भारतीय-जनता-पार्टी इत्यस्य राजनीतिज्ञः।१९३९ — फिरोजखानः — प्रसिद्धः अभिनेता चलचित्रनिर्माता निर्देशकश्च।१९६० — अजयकुमारमिश्रः — भारतीय-जनता-पार्टी इत्यस्य राजनीतिज्ञः, षोडश-लोकसभायाः सदस्यश्च।१९६९ — ब्रात्यबसुः — भारतीयः अभिनेता, मञ्चनिर्देशकः, नाटककारः, चलचित्रनिर्देशकः, प्राध्यापकः राजनीतिज्ञश्च।१९७७ — दिव्यादत्ता — चलचित्र-अभिनेत्री।
निधनम्
१९५५ — रुक्माबाई — भारतस्य प्रथमासु महिला-चिकित्सकेषु अन्यतमा।१९५८ — जॉन बी. वॉटसनः — अमेरिकीमनोवैज्ञानिकः।१९८० — जॉन बोनहमः — आङ्ग्लः सङ्गीतकारः गीतकारश्च।१९८९ — सुदर्शनसिंहचक्रः — साहित्यकारः स्वतन्त्रतासेनानी च।१९९० — प्रफुल्लचन्द्रसेनः — बङ्गालस्य प्रमुखः काङ्ग्रेसनेता, महात्मागान्धिनः अनुयायी स्वतन्त्रतासेनानी च।१९९० — एस. मुखर्जी — भारतस्य भूतपूर्वः विंशतितमः मुख्यन्यायाधीशः।२००७ — जनकृष्णमूर्तिः — २००१ तः २००२ पर्यन्तं भारतीय-जनता-पार्टी इत्यस्य राष्ट्रियाध्यक्षः।२०१० — कन्हैयालालनन्दनः — वरिष्ठः पत्रकारः साहित्यकारश्च।२०२० — एस. पी. बालसुब्रह्मण्यम् — भारतीयचलचित्रजगतः प्रसिद्धेषु पार्श्वगायकेषु अन्यतमः।
Hindusthan Samachar / Divya Ranjan