Enter your Email Address to subscribe to our newsletters

रायपुरम् 24 सितंबरमासः (हि.स.)। बिलासपुरजनपदेन पर्यावरणसंरक्षणक्षेत्रे नूतनं ऐतिहासिकं कीर्तिमानं स्थापितम्, विश्वकीर्तिधरः शिक्षकः कलेश्वरसाहुः सम्मानितः
बिलासपुरजनपदेन पर्यावरणसंरक्षणस्य क्षेत्रे नूतनम् ऐतिहासिकं कीर्तिमानम् स्थापितम्। जनपदप्राथमिकविद्यालये बिल्हा इत्यत्र कार्यरतः शिक्षकः कलेश्वरसाहुः स्वकीयया निष्ठया अथकपरिश्रमेण च ‘गोल्डन बुक् आफ् वर्ल्ड् रिकार्ड्स्’ इत्यस्मिन् स्वनाम अङ्कितवान्।
साहुना ग्रीष्मावकाशस्य विद्यालयसमयस्य च अनन्तरं अतिरिक्तसमयं विनियुज्य त्रिमासेषु २.७० लक्षं बीजगोलकानि निर्मितानि। अस्याः अभूतपूर्वायाः उपलब्धेः आधिकारिकरूपेण विश्वकीर्तिमानत्वेन मान्यता प्रदत्ता अस्ति। अस्यै विशिष्टायै उपलब्धये उपमुख्यमन्त्री अरुणसावः अद्य गुरुवासरे शिक्षकं कलेश्वरसाहुं ‘गोल्डन बुक् आफ् वर्ल्ड् रिकार्ड्स्’ इत्यस्य आधिकारिकं प्रमाणपत्रं पदकं च प्रदाय सम्मानितवान्। अस्मिन् विशेषावसरे ‘गोल्डन बुक् आफ् वर्ल्ड् रिकार्ड्स्’ इत्यस्य राज्यप्रभारी सोनलराजेशशर्मा अपि उपस्थितासीत्।
शिक्षकः कलेश्वरसाहुः अध्यापनकार्येण सह पर्यावरणस्य प्रति स्वकीयस्य सामाजिकदायित्वस्य उत्कृष्टम् उदाहरणं प्रस्तुतवान्। तेन किमपि व्यावसायिकस्वार्थं विना व्यक्तिगतप्रयासेन लक्षशः बीजानि सुरक्षितानि कृत्वा बीजगोलकरूपेण परिवर्तितानि, येन वृक्षारोपणस्य प्रोत्साहनं भवेत्।
उपमुख्यमन्त्री अरुणसावः शिक्षकस्य अस्याः सफलतायाः पर्यावरणसंरक्षणस्य प्रति तस्य समर्पणस्य च प्रशंसां कृत्वा तस्य पृष्ठं स्पृष्ट्वा हार्दिकं अभिनन्दनं शुभकामनाश्च प्रदत्तवान्। सः अवदत् यत् कलेश्वरसाहोः इदं कार्यं न केवलं बिलासपुरजनपदस्य, अपि तु सम्पूर्णस्य छत्तीसगढराज्यस्य कृते अत्यन्तं गौरवस्य विषयः अस्ति। शासकीयसेवया सह पर्यावरणस्य क्षेत्रे एतादृशम् असाधारणं योगदानं सम्पूर्णसमाजस्य कृते अनुकरणीयम् अस्ति तथा च तत् जनान् पर्यावरणसंरक्षणाभियाने सहभागीभवितुं सदैव प्रेरयिष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani