दुर्गापूजायां बङ्गालस्य विभिन्नेषु पूजामण्डपेषु प्रसिद्धकलाकाराः प्रस्तुतिं दास्यन्ति, ड्रोन-प्रदर्शनम् आयोजयिष्यते
कोलकाता, २४ सेप्टेम्बरमासः (हि.स.)। दुर्गापूजा यथायथा समीपम् आगच्छति, तथा तथा बङ्गालीजनानाम् उत्साहोऽपि वर्धते। बङ्गालस्य महत्तमे उत्सवे दुर्गापूजायाः पूर्णम् आनन्दं प्राप्तुं जनाः सज्जाः सन्ति। मुख्यमन्त्रिणा गुरुवासरे कोलकातायां पत्रकारैः सह वार्
मां  दुर्गा का फाइल फोटो


कोलकाता, २४ सेप्टेम्बरमासः (हि.स.)। दुर्गापूजा यथायथा समीपम् आगच्छति, तथा तथा बङ्गालीजनानाम् उत्साहोऽपि वर्धते। बङ्गालस्य महत्तमे उत्सवे दुर्गापूजायाः पूर्णम् आनन्दं प्राप्तुं जनाः सज्जाः सन्ति। मुख्यमन्त्रिणा गुरुवासरे कोलकातायां पत्रकारैः सह वार्तालापं कुर्वता उक्तं यत् अस्मिन् वर्षे पूजानन्तरं कार्निवल-कार्यक्रमः न भविष्यति, अपि तु दुर्गापूजायाः उद्घाटनावसरे एव महाकार्यक्रमः आयोजयिष्यते। तेन उक्तं यत् बाँकुडायां, विष्णुपुरे, नन्दीग्रामे, सिलीगुड्यां, दुर्गापुरे तथा बहरामपुरे एषा सांस्कृतिकयात्रा भविष्यति। ततः पञ्चम्यां तिथौ दीघायां बृहत्तमः कार्यक्रमः आयोजयिष्यते, यस्मिन् प्रसिद्धाः कलाकाराः स्वकीयां प्रस्तुतिं दास्यन्ति।

प्राप्तविवरणानुसारं कोलकातायाः आकाशे एकस्मिन् समये त्रिसहस्रं ड्रोनयन्त्राणि दृश्यन्ते। एतैः ड्रोनयन्त्रैः प्रकाशबिन्दूनां माध्यमेन भगवत्याः दुर्गायाः आकृतिः निर्मास्यते। ततः दुर्गापूजायाः आह्वान-सम्बद्धाः विविधाः क्षणाः प्रस्तुताः भविष्यन्ति। महालयादारभ्य अष्टमीपर्यन्तं दुर्गापूजादिनेषु महाप्रदर्शनस्य आयोजनं भविष्यति। तथापि अस्मिन् वर्षे पूजायाः आयोजनं केवलं कोलकातानगरपर्यन्तं सीमितं न भविष्यति। सम्पूर्णे राज्ये उत्सवस्य आयोजनस्य प्रयत्नः क्रियते।

नवान्न-सूत्रानुसारं देवीदुर्गायाः आराधना बङ्गालस्य लोकसंस्कृत्या उत्सवेन च सह समन्वयेन क्रियते। तेन सह विशेषसांस्कृतिककार्यक्रमाणाम् अपि आयोजनं कृतम् अस्ति। अस्य नाम ‘ट्रिब्यूट् मां टूर्’ इति निर्धारितम् अस्ति। पञ्चस्थलेषु द्विदिनपर्यन्तं एते सांस्कृतिककार्यक्रमाः आयोजयिष्यन्ते।

सूत्रानुसारं कलाकाराणां सूच्यां कुमारशानूः, शानः तथा मोनालीठाकुरः इत्येतेषां नामानि सम्मिलितानि सन्ति। एतदतिरिक्तं बङ्गालस्य प्रायः सर्वे प्रमुखकलाकाराः विभिन्नेषु मञ्चेषु स्वकीयाः प्रस्तुतयः प्रयच्छन्तः दृश्यन्ते।

Hindusthan Samachar / Divya Ranjan