छऊनृत्यस्य माध्यमेन हेपेटाइटिस-विषये जनजागरूकता-अभियानम्
मेदिनीपुरम्, २४ सेप्टेम्बरमासः (हि.स.)। पश्चिममेदिनीपुरजनपदस्य बेलडानगरे हेपेटाइटिस-रोगस्य विषये सामान्यजनान् जागरूकान् कर्तुं जनपदस्वास्थ्यविभागेन अभिनवः प्रयत्नः कृतः। पश्चिमबङ्ग-सर्वकारस्य स्वास्थ्यविभागस्य पक्षतः गुरुवासरे प्रातः बेलडानगरे नारा
छऊ नृत्य कर जागरूकता अभियान


छऊ नृत्य कर जागरूकता अभियान


मेदिनीपुरम्, २४ सेप्टेम्बरमासः (हि.स.)। पश्चिममेदिनीपुरजनपदस्य बेलडानगरे हेपेटाइटिस-रोगस्य विषये सामान्यजनान् जागरूकान् कर्तुं जनपदस्वास्थ्यविभागेन अभिनवः प्रयत्नः कृतः। पश्चिमबङ्ग-सर्वकारस्य स्वास्थ्यविभागस्य पक्षतः गुरुवासरे प्रातः बेलडानगरे नारायणगढे च विभिन्नेषु क्षेत्रेषु पुरुलियायाः पारम्परिकस्य छऊनृत्यस्य माध्यमेन हेपेटाइटिस-विषये जनजाग-रूकता-अभियानं सञ्चालितम्।

अस्य अभियानस्य अन्तर्गतं बेलडा-विशेषचिकित्सालये, नारायणगढ-हाटे तथा बेलडा-प्रभाती-बालिकाविद्यापीठे च छऊनृत्यस्य विशेषकार्यक्रमाः आयोजिताः। आकर्षकस्य छऊनृत्यस्य प्रस्तुत्या हेपेटाइटिस-रोगस्य कारणानि, संक्रमणात् संरक्षणस्य उपायाः तथा जनजागरूकतया सम्बद्धाः विविधाः विषयाः सामान्यजनानां समक्षं प्रस्तुताः।

स्वास्थ्यविभागस्य अस्य अभिनवस्य जनजागरूकता-अभियानस्य विषये स्थानीयजनेष्वपि महती रुचिः दृष्टा। लोककलायाः जनजागरूकता-अभियानस्य माध्यमरूपेण उपयोगं कृत्वा स्वास्थ्यसम्बद्धान् सन्देशान् सामान्य-जनानां समीपं सुगमतया प्रापयितुम् अस्य कार्यक्रमस्य मुख्योद्देश्यम् इति कथितम्।

स्वास्थ्यकर्मचारिभिः जनाः हेपेटाइटिस-रोगस्य विषये जागरूकाः भवन्तु तथा आवश्यकस्वास्थ्यनियमानां पालनं कुर्वन्तु इति सन्देशः अपि दत्तः। लोकसंस्कृतेः स्वास्थ्यजागरूकतायाश्च अयं समन्वयः बेलडा-नारायणगढयोः स्थानीयजनानाम् ध्यानम् आकर्षितवान्।

Hindusthan Samachar / Divya Ranjan