Enter your Email Address to subscribe to our newsletters




चिरांगः (असमः), 24 सितम्बरमासः (हि.स.)।
नगरराजभाषाकार्यान्वयनसमित्याः बङ्गाईगावस्य तत्त्वावधाने बङ्गाईगावरिफाइनरीसंस्थया असमसर्वकारेण आङ्ग्लमाध्यमेन सञ्चालिते आदर्शविद्यालये, सिडली, चिराङ्गे अद्य सृजनात्मकहिन्दीलेखनकार्यशाला तथा हिन्दीपुस्तकप्रदर्शिनी आयोजिते। कार्यक्रमस्य उद्देश्यं विद्यार्थिषु हिन्दीभाषायाः प्रति रुचिं, सृजनात्मकाभिव्यक्तिं तथा पठनपाठनस्य संस्कृतिं च प्रोत्साहयितुम् आसीत्।
कार्यक्रमे युवा कविः रङ्गकर्मी च मो. रहमानः विद्यार्थिभ्यः सृजनात्मकहिन्दीलेखनस्य विविधपक्षान् परिचितवान्। तेन कविता, कथा, संस्मरणम् अन्याश्च साहित्यिकविधयः इत्यादिषु लेखनस्य सूक्ष्मताः सरलतया मनोरमरीत्या च स्पष्टीकृताः। सः विद्यार्थिनः स्वकीयकल्पनाशक्तिं अनुभवान् च शब्दमाध्यमेन अभिव्यक्तुं प्रेरितवान्।
अस्मिन् अवसरे विद्यालयस्य प्राचार्यः अर्जुनबर्मा कार्यक्रमस्य आयोजनाय नगरराजभाषाकार्यान्वयनसमित्यै रिफाइनरीसंस्थायै च कृतज्ञतां प्रकटितवान्।
कार्यक्रमे बङ्गाईगावरिफाइनरीसंस्थायाः सहायकप्रबन्धकः हिन्दीसीएसआरप्रभारी च शरदकुमारः तथा जयपुरस्थितस्य हिन्दीस्थानप्रकाशनस्य निदेशकः विकासरावलः विशेषरूपेण उपस्थितौ आस्ताम्।
कार्यक्रमस्य अन्तर्गतं हिन्दीपुस्तकप्रदर्शिनी अपि आयोजिता। तस्यां साहित्यं, कविता, कथा, बालसाहित्यम्, ज्ञानविज्ञानं तथा विविधविषयसम्बद्धानि हिन्दीपुस्तकानि प्रदर्शितानि। विद्यार्थिभिः शिक्षकैश्च पुस्तकप्रदर्शन्यां विशेषरुचिः प्रदर्शिता तथा विभिन्नपुस्तकानाम् अवलोकनं कृतम्। पुस्तकप्रदर्शन्याः आयोजने जयपुरस्थितस्य हिन्दीस्थानप्रकाशनस्य सहकारिता आसीत्।
Hindusthan Samachar / Dheeraj Maithani