भारत-नीदरलैण्डयोः मध्ये जलक्षेत्रे रणनीतिकसहकारिताविषये उपवेशनम् अद्य।
नव दिल्ली, 24 सितंबरमासः (हि.स.)। केन्द्रीयजलशक्तिमन्त्रिणः सी. आर. पाटीलस्य अध्यक्षतायां अद्य भारतनीदरलैण्डयोः मध्ये जलक्षेत्रे रणनीतिकसाझेदारीविषये द्विपक्षीयोपवेशनम् आयोजितम् अस्ति। उपवेशनम् अपराह्णे त्रिवादने भारतमण्डपम् परिसरे भविष्यति। जलश
e22573706cfe9748cc0e45a526c2bfef_963030281.jpg


नव दिल्ली, 24 सितंबरमासः (हि.स.)।

केन्द्रीयजलशक्तिमन्त्रिणः सी. आर. पाटीलस्य अध्यक्षतायां अद्य भारतनीदरलैण्डयोः मध्ये जलक्षेत्रे रणनीतिकसाझेदारीविषये द्विपक्षीयोपवेशनम् आयोजितम् अस्ति। उपवेशनम् अपराह्णे त्रिवादने भारतमण्डपम् परिसरे भविष्यति।

जलशक्तिमन्त्रालयस्य अनुसारम् उपवेशने भारतनीदरलैण्डयोः मध्ये जलक्षेत्रे रणनीतिकसाझेदारीं तथा उत्कृष्टताकेन्द्रस्य स्थापनां सहितं विविधेषु विषयेषु चर्चा भविष्यति।

अस्मिन् अवसरे केन्द्रीयजलायोगस्य, गुजरातसर्वकारस्य कल्पसरविभागस्य तथा नीदरलैण्डदेशस्य जलसम्बद्धस्य अनुसन्धानसंस्थानस्य डेल्टारेस इत्यस्य मध्ये परियोजनायां प्राविधिकसहकार्यार्थं त्रिपक्षीयसमझौतापत्रे हस्ताक्षराः करिष्यन्ते।

तदतिरिक्तं केन्द्रीयजलायोगस्य, गुजरातसर्वकारस्य कल्पसरविभागस्य तथा नीदरलैण्डदेशस्य डेल्फ्टप्राविधिकविश्वविद्यालयस्य मध्ये क्षमतानिर्माणाय प्रशिक्षणाय च त्रिपक्षीयसमझौतापत्रमपि हस्ताक्षरितं भविष्यति।

भारतस्य मण्डपमेव २२ सितम्बरतः प्रारब्धस्य पञ्चदिवसीयस्य भारतान्तर्राष्ट्रीयजलसप्ताहस्य २०२६ इत्यस्य अन्तर्गतं आयोजिते अस्मिन् कार्यक्रमे जलप्रबन्धनस्य, प्राविधिकसहकारस्य तथा क्षमतानिर्माणस्य क्षेत्रेषु भारतनीदरलैण्डयोः साझेदारीं अधिकं सुदृढां कर्तुं विशेषः बलः प्रदास्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani