पद्मश्रीकविताकृष्णमूर्तेः सुरम्यस्वरेण चक्रधरसमारोहस्य मञ्चः गुञ्जितः, ४१तमस्य चक्रधरसमारोहस्य समापनम्
रायगढम्, २४ सेप्टेम्बरमासः (हि.स.)। अन्ताराष्ट्रियख्यातिप्राप्तस्य एकचत्वारिंशत्तमस्य चक्रधरसमारोहस्य दशम्यां अन्तिमायां च सङ्गीतसन्ध्यायां बुधवासरे रात्रौ भारतीयसङ्गीतजगतः सुरम्यस्वरा पद्मश्रीसम्मानिता प्रख्याता पार्श्वगायिका कविता कृष्णमूर्तिः स्
कविता कृष्णमूर्ति


रायगढम्, २४ सेप्टेम्बरमासः (हि.स.)। अन्ताराष्ट्रियख्यातिप्राप्तस्य एकचत्वारिंशत्तमस्य चक्रधरसमारोहस्य दशम्यां अन्तिमायां च सङ्गीतसन्ध्यायां बुधवासरे रात्रौ भारतीयसङ्गीतजगतः सुरम्यस्वरा पद्मश्रीसम्मानिता प्रख्याता पार्श्वगायिका कविता कृष्णमूर्तिः स्वकीयया मनोहारिण्या गायनप्रस्तुत्या समग्रं वातावरणं सङ्गीतमयं कृतवती। तस्याः प्रस्तुतिषु दर्शकाः करताडनेन उत्साहं प्रकटितवन्तः।

कार्यक्रमस्य प्रारम्भं जानकुमारसानुः कृतवान्। सः स्वकीयेन सुरम्यस्वरेण लोकप्रियगीतानां प्रस्तुतिं दत्त्वा श्रोतॄन् सङ्गीतस्य जगति निमज्जितवान्। सः ‘तू मिले दिल खिले’ इत्यादीनां लोकप्रियगीतानां मधुरप्रस्तुत्या वातावरणं सङ्गीतमयं कृतवान्। स्वकीयया प्रस्तुत्या सः स्वस्य पिता प्रसिद्धगायकः कुमारसानुः इत्यस्य सङ्गीतपरम्परायाः दृश्यमपि प्रदर्शितवान्।

तदनन्तरं पद्मश्रीकविताकृष्णमूर्तिः मञ्चम् आगता। तस्याः प्रभावशालिना भावपूर्णेन च स्वरेण सम्पूर्णं वातावरणं सुरमयं जातम्। चत्वारिंशदधिकवर्षव्यापिन्यां सङ्गीतयात्रायां भारतीयचलच्चित्रजगतः कृते सहस्रशः स्मरणीयगीतानि प्रदत्तवती कविता कृष्णमूर्तिः चलचित्रसङ्गीतस्य, शास्त्रीयसङ्गीतस्य, भक्तिसङ्गीतस्य समकालीनसङ्गीतस्य च मनोहरं सङ्गमं प्रस्तुतवती।

सा ‘दिल दिया है जान भी देंगे ऐ वतन तेरे लिए’, ‘बोले चूड़ियाँ बोले कंगना’, ‘कभी खुशी कभी गम’ इत्यादीनां स्वकीयानां लोकप्रियगीतानां प्रस्तुत्या दर्शकान् आनन्दयितुं प्रेरितवती। तस्याः स्वरे गीतानां भावनात्मकगाम्भीर्यं शास्त्रीयसङ्गीतस्य सुदृढता च प्रस्तुतिं विशेषां कृतवन्तौ।

कविताकृष्णमूर्त्या सह सङ्गीतज्ञकलाकाराणां उत्कृष्टदलस्य प्रस्तुत्या कार्यक्रमः अधिकं प्रभावशाली अभवत्। सञ्जयमराठे तथा ओङ्कारदेवस्करः की-बोर्ड्-वादने, रिचर्डमित्रा गिटारवादने, सुरेशरामनाथनः बास्-वादने, विजयताम्बे वंशीवादने, गिरीशविश्वः ढोलकवादने, प्रसादकुलकर्णी ड्रम्-वादने, सङ्केतओकः तबलावादने तथा सुप्रियाभट्टाचार्यः काङ्गोवादने सङ्गतिं कृतवन्तः। परीक्षितकुलकर्णी ध्वन्यभियन्तारूपेण सहयोगं कृतवान्।

कविताकृष्णमूर्तेः जानकुमारसानोश्च प्रस्तुतिभिः चक्रधरसमारोहस्य अन्तिमा सङ्गीतसन्ध्या स्मरणीया अभवत्। कलाकाराणां प्रस्तुतयः आस्वादितुं रात्रौ विलम्बपर्यन्तं दर्शकानां बहुसङ्ख्या समागता।

Hindusthan Samachar / Divya Ranjan