Enter your Email Address to subscribe to our newsletters

लखनऊ, 24 सितंबरमासः (हि.स.)। भारतीयजनतापार्टी इत्यस्य वरिष्ठनेता उत्तरप्रदेशस्य उपमुख्यमन्त्री च केशवप्रसादमौर्यः अवदत् यत् जनतायाः आशीर्वादेन, सर्वकारस्य कार्यैः कार्यकर्तॄणां च अथकपरिश्रमेण भारतीयजनतापार्टी तृतीयवारमपि उत्तरप्रदेशे ऐतिहासिकविजयं प्राप्य सर्वकारं रचयिष्यति।
उपमुख्यमन्त्री गुरुवासरे स्वकीयसामाजिकमाध्यमसन्देशे लिखितवान् यत् देशस्य अधिकांशराज्येषु सत्तातः बहिष्कृता काङ्ग्रेसः तथा अन्ये विपक्षीदलाः ‘नृत्यं न जानाति, आङ्गणं वक्रम्’ इत्युक्तिवत् स्थितिम् अनुभवतिः। प्रत्येकं निर्वाचनात् पूर्वं पराजयस्य भयेन एते एकां कथां निर्मातुं प्रारभन्ते, येन निर्वाचनपरिणामानन्तरं स्वप्रतिष्ठां रक्षितुं शक्येत तथा पराजयात् लज्जां निवारयितुं शक्येत। पूर्वम् एषा दुर्वृत्तिः केवलं काङ्ग्रेसस्य, विशेषतः तस्याः चञ्चलस्वभावस्य नेता राहुलगान्धिनः आसीत्, अधुना तमनुसृत्य एषा प्रवृत्तिः तासामपि राजनैतिकदलानां मध्ये दृश्यते, यानि पूर्वं धरातले निर्वाचनसंघर्षं कर्तुं सामर्थ्यम् अधारयन्।
केशवप्रसादमौर्यः अवदत् यत् यदि निर्वाचनायोगस्य नेतृत्वम् राहुलगान्धिने तस्य गठबन्धनस्य सहकारिभ्यश्च, यथा समाजवादीपार्टीस्य अखिलेशयादवाय तथा तृणमूलकाङ्ग्रेसस्य प्रमुखायै ममतायै अपि प्रदीयेत, तथापि जनानां विश्वासः भारतीयजनतापार्टीमध्ये तस्याः नेतरे प्रधानमन्त्रिणि नरेन्द्रमोदिनि च एव स्थास्यति इति। भारतीयजनतापार्टीस्य निर्वाचनविजयः द्विइञ्जिनसर्वकारस्य कार्याणां, जनविश्वासस्य तथा मतदानकेन्द्रस्तरपर्यन्तं सुदृढस्य सङ्गठनस्य च परिणामः अस्ति। यत्र निर्वाचनं तत्र कमलं विकसयितुं सङ्कल्पेन भारतीयजनतापार्टीस्य कार्यकर्तारः दिवानिशं जनानां मध्ये परिश्रमं कुर्वन्ति।
Hindusthan Samachar / Dheeraj Maithani