Enter your Email Address to subscribe to our newsletters


चक्रधरसमारोहस्य समापनावसरे रायगढाय अनेकानि बृहदुपहाररूपाणि कार्याणि, द्विकोटिरूप्यकैः निर्मास्यते अन्तर्वस्तुनिर्मातृणां स्टूडियो
रायपुरम्, २४ सेप्टेम्बरमासः (हि.स.)। अन्ताराष्ट्रियख्यातिप्राप्तस्य एकचत्वारिं-शत्तमस्य चक्रधरसमारोहस्य बुधवासरे रात्रौ भव्यं समापनम् अभवत्। समापनसमारोहे प्रदेशस्य वित्तमन्त्री ओ.पी.चौधरी सम्मिलितः भूत्वा दीपप्रज्वलनं कृत्वा समारोहस्य दशम्याः अन्तिमायाश्च सन्ध्यायाः शुभारम्भं कृतवान्।
अस्मिन् अवसरे सः महाराजचक्रधरस्य कलासाधनां योगदानं च नत्वा अवदत् यत् महाराजचक्रधरः स्वसमये कलां सङ्गीतं च नूतनानि उच्चशिखराणि प्रापितवान्। तस्य संरक्षणेन योगदाननेन च रायगढ-घराणस्य कथकनृत्याय देशव्यापी विशिष्ट: परिचय: प्राप्त:। चक्रधरसमारोहः अस्याः गौरवशालिन्याः सांस्कृतिकपरम्परायाः संरक्षणस्य अग्रे च प्रसारणस्य सशक्तं माध्यमम् अस्ति।
वित्तमन्त्री चौधरी अवदत् यत् रायगढस्य परिचय: विकासेन सह कलया संस्कृत्या समृद्धपरम्पराभिश्च अपि अस्ति। एतां सांस्कृतिकपरम्परां भाविवंशेभ्यः सम्प्रेषयितुं रायगढं च विकासस्य नूतनानि उच्चशिखराणि प्रति नेतुं अग्रिमेषु पञ्चसु वर्षेषु अनेकानि महत्त्वपूर्णकार्याणि पूर्णीकर्तुं सङ्कल्पः कृतः अस्ति।
सः अवदत् यत् रायगढे कलासङ्गीत-महाविद्यालयस्य स्थापना करिष्यते। तदर्थं वित्तविवरणे प्रावधानं कृतम् अस्ति तथा च अग्रिमा प्रक्रिया द्रुतगत्या प्रचलति। सः अवदत् यत् रायगढे कमलानेहरू-उद्यानस्य आदर्शेन अग्रिमेषु पञ्चसु वर्षेषु दश नूतनानि प्राणवायू-उद्यानानि विकसितुं सङ्कल्पः कृतः अस्ति। अस्यैव क्रमे खर्राघाटे प्रायः पञ्च एकरपरिमिते क्षेत्रे भव्यस्य प्राणवायू-उद्यानस्य विकासः करिष्यते, यस्य भूमिपूजनं शीघ्रं करिष्यते। सः नागरिकान् अस्मिन् कार्ये सहभागितां कर्तुम् आहूतवान्।
वित्तमन्त्री रायगढस्य समग्रविकासाय क्रियमाणानां कार्याणां विषये सूचनां दत्त्वा अवदत् यत् राजूनगरे दुग्धशाला, खर्राघाटे प्राणवायू-उद्यानम्, गजमारपर्वतस्य नगरवनस्य च विकासः, क्रीडासुविधानां विस्तारः, मरीनड्राइव-मार्गस्य विकासः इत्यादीनां विभिन्नानाम् आधारभूत-संरचनापरियोजनानां कार्यं प्रगतिपथे अस्ति। कायाघाटसेतुः, केवडावाडीसेतुः, राजप्रासादस्य समीपे सेतुः तथा गोवर्धनपुरसेतुः इत्यादीनां निर्माणेन नगरस्य सम्पर्कव्यवस्था सुदृढा भविष्यति। तदतिरिक्तं मार्गाणां विस्तारीकरणम्, परिभ्रमणमार्गः, क्रीडासुविधानां विस्तारः, प्रयासविद्यालयः, नवगुरुविद्यालयः, उद्यानिकीमहाविद्यालयः, भौतिक-चिकित्सा-महाविद्यालयः तथा प्राकृतिक-चिकित्सा-महाविद्यालयः इत्यादीनि कार्याणि रायगढस्य विकासाय नूतनां दिशां प्रदास्यन्ति।
समापनसमारोहे वित्तमन्त्री ओ.पी.चौधरी रायगढस्य युवा-अन्तर्वस्तुनिर्मातृभ्यः अपि महत्त्वपूर्णां घोषणां कृतवान्। सः अवदत् यत् रायगढे द्विकोटिरूप्यकाणां व्ययेन आधुनिकस्य स्टूडियो इत्यस्य निर्माणं करिष्यते। अनेन स्थानीययुवभ्यः, कलाकारभ्यः अन्तर्वस्तुनिर्मातृभ्यश्च आधुनिक-संसाधनानि उत्तमं च सृजनात्मकं मञ्चं उपलब्धं भविष्यति। सः अवदत् यत् नूतनवंशस्य सृजनात्मक-प्रतिभायै अवसरं प्रदातुं स्थानीयकला-संस्कृतेः च डिजिटलमाध्यमेन व्यापकं मञ्चं प्रदातुं दिशि एष: महत्त्वपूर्ण: प्रयत्न: भविष्यति।
समापनसमारोहे वित्तमन्त्री कलाकारान् सम्मानितवान्। सः कलाकारम् आयुषनामदेवं तस्य समूहं च सम्मानितवान्। अपरतः सुदूरबस्तरस्य नारायणपुरतः आगतानां पुनर्वासित-कलाकाराणां प्रस्तुतिं प्रशंसन् तेषां कृते एकपञ्चाशत्सहस्ररूप्यकाणां सम्मानराशिं प्रदातुं घोषणां कृतवान्। नक्सलसङ्गठने पूर्वं कमाण्डररूपेण कार्यं कृतवती पुनर्वासानन्तरं कलामाध्यमेन समाजस्य मुख्यधारायां सम्बद्धा च चौतीदीदी स्वकीयायाः विशिष्टकला-प्रस्तुत्यै वित्तमन्त्रिणा शाटिकया नारिकेलेन च सम्मानिता।
सांसदः राधेश्यामराठिया अवदत् यत् १४ सेप्टेम्बरमासतः आयोजिते समारोहे देशस्य विभिन्नेभ्यः भागेभ्यः आगतैः ख्यातिप्राप्तैः कलाकारैः स्वकलायाः उत्कृष्टं प्रदर्शनं कृतम्। सः अवदत् यत् चक्रधरसमारोहः रायगढस्य सांस्कृतिकपरिचितेः महत्त्वपूर्णः भागः अस्ति। सः कलासम्राट् महाराजचक्रधरस्य स्मृतीः नत्वा कलायाः संस्कृतेश्च संरक्षणे तस्य योगदानं स्मृतवान्।
अस्मिन् अवसरे महापौरः जीवर्धन-सिंहचौहानः, जिलापञ्चायतस्य अध्यक्षा श्रीमती शिखारविन्द्रगबेलः, जनपदा-धिकारी मयङ्कचतुर्वेदी इत्यादयः जनप्रतिनिधयः, गणमान्यनागरिकाः बहुसङ्ख्यकाः जनाश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan