उत्तरप्रदेशे बसदुर्घटना: उपराष्ट्रपतिना दुःखं व्यक्तम्
नवदिल्ली, 24 सितंबरमासः (हि.स.)। उत्तरप्रदेशस्य बसयाने अग्निदुर्घटनायाः विषये उपराष्ट्रपतिना सी. पी. राधाकृष्णनेन गुरुवासरे गभीरं दुःखं व्यक्तं कृत्वा पीडितपरिवारेभ्यः स्वकीयाः संवेदनाः प्रकटिताः। उपराष्ट्रपतिना सी. पी. राधाकृष्णेन एक्स इत्यत्र लि
उत्तर प्रदेश में यमुना एक्सप्रेस-वे पर जलती बस की एक झलक।


नवदिल्ली, 24 सितंबरमासः (हि.स.)। उत्तरप्रदेशस्य बसयाने अग्निदुर्घटनायाः विषये उपराष्ट्रपतिना सी. पी. राधाकृष्णनेन गुरुवासरे गभीरं दुःखं व्यक्तं कृत्वा पीडितपरिवारेभ्यः स्वकीयाः संवेदनाः प्रकटिताः।

उपराष्ट्रपतिना सी. पी. राधाकृष्णेन एक्स इत्यत्र लिखितम्— “उत्तरप्रदेशस्य ग्रेटरनोएडानगरे बसयाने प्रज्वलितायाः अग्नेः दुःखदघटनया अत्यन्तं दुःखितोऽस्मि, यस्यां बहवः जनाः प्राणान् त्यक्तवन्तः। पीडितपरिवारेभ्यः मम गभीराः संवेदनाः। अस्यां घटनायां घातितानां जनानां शीघ्रस्वास्थ्यलाभाय कामनां करोमि।

---------------

Hindusthan Samachar / Dheeraj Maithani