उ.प्र. बसाग्निदुर्घटना: राष्ट्रपतिः रक्षामन्त्री च दुःखं प्रकटितवन्तौ
नवदिल्ली, २४ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशे बसाग्निदुर्घटनायां राष्ट्रपतिः द्रौपदीमुर्मू तथा रक्षामन्त्री राजनाथसिंहः इत्येताभ्यां सह अनेके नेतारः गभीरं दुःखं प्रकटितवन्तः। ते पीडितपरिवारान् प्रति स्वकीयाः संवेदनाः प्रकटितवन्तः। राष्ट्रपतिः
उत्तर प्रदेश में यमुना एक्सप्रेस-वे पर जलती बस की एक झलक।


नवदिल्ली, २४ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशे बसाग्निदुर्घटनायां राष्ट्रपतिः द्रौपदीमुर्मू तथा रक्षामन्त्री राजनाथसिंहः इत्येताभ्यां सह अनेके नेतारः गभीरं दुःखं प्रकटितवन्तः। ते पीडितपरिवारान् प्रति स्वकीयाः संवेदनाः प्रकटितवन्तः।

राष्ट्रपतिः एक्स-माध्यमे अवदत्, “उत्तरप्रदेशे यमुनाएक्सप्रेस-मार्गे बसयाने अग्निः प्रज्वलितः, येन जनानां मृत्युसमाचारः अत्यन्तं पीडादायकः अस्ति। अहं शोकसन्तप्तपरिवारान् प्रति गभीरां संवेदनां प्रकटयामि। अस्यां दुर्घटनायां घातितानां जनानां शीघ्रस्वास्थ्यलाभाय कामये।”

रक्षामन्त्री राजनाथसिंहः अवदत् यत् ग्रेटरनोएडायां यमुनाएक्सप्रेस्-मार्गे शयनयान-बसयाने अग्निप्रज्वलनेन यात्रिकाणां मृत्युः अत्यन्तं दुःखदः हृदयविदारकश्च अस्ति। अस्यां दुःखदुर्घटनायां स्वकीयजनान् हृतवत: परिवारान् प्रति तस्य गभीराः संवेदनाः सन्ति। ईश्वरः तेषां शोकसन्तप्तपरिजनान् एतदपारं दुःखं सोढुं शक्तिं प्रददातु। सः आहतानां शीघ्रस्वास्थ्यलाभाय प्रार्थनां कृतवान्।

उल्लेखनीयम् अस्ति यत् देहलीस्थित-कश्मीरीद्वारतः उत्तरप्रदेशस्य महोबां प्रति गच्छत्यां द्विस्तरीय-बसयाने बुधवासरे अर्धरात्रौ यमुनाएक्सप्रेस-मार्गस्य ३३-तम-किलोमीटरे अग्निः प्रज्वलितः। तस्मिन् समये बसयाने ३५ जनाः आरूढाः आसन्। अस्यां दुर्घटनायां महिलया सह नव जनाः दग्धाः मृत्युमुपगताः।

Hindusthan Samachar / Divya Ranjan