सेवां कुर्वन्तः एव सेवायाः सन्देशं दद्यात्, उपदेशं न दद्यात् — मोदी
नवदिल्ली, 24 सितंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे उक्तवान् यत् सेवा एव मुख्यं प्रयोजनं भवितव्यम् तथा सेवायाः सन्देशः उपदेशेन न, अपितु स्वकीयेन आचरणेन कार्येण च दातव्यः। सः सेवासङ्कल्पयात्रायां सम्मिलितेभ्यः युवभ्यः उक्तवान् यत्
प्रधानमंत्री नरेन्द्र मोदी गुरुवार को वीडियो कॉन्फ्रेंसिंग के माध्यम से संवाद के दौरान


नवदिल्ली, 24 सितंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे उक्तवान् यत् सेवा एव मुख्यं प्रयोजनं भवितव्यम् तथा सेवायाः सन्देशः उपदेशेन न, अपितु स्वकीयेन आचरणेन कार्येण च दातव्यः। सः सेवासङ्कल्पयात्रायां सम्मिलितेभ्यः युवभ्यः उक्तवान् यत् राजनीतौ कियती अपि बृहती सत्ता अथवा उच्चं पदं प्राप्तं भवतु, तेषां मार्गः सेवायाः एव भवितव्यः तथा ते कदापि सेवामार्गात् विचलिताः न भवन्तु।

प्रधानमन्त्रिणा ‘सेवासङ्कल्पाभियानस्य’ अन्तर्गतं वडनगरतः वाराणसीं प्रति गच्छद्भिः सेवायात्रिभिः सह दृक्श्राव्यमाध्यमेन संवादं कुर्वता उक्तम्— “सेवां कुर्वन्तः एव सेवायाः सन्देशं दातव्यम्, सेवायाः उपदेशः न दातव्यः। वयं सेवां कृत्वा एव सेवायाः सन्देशं दास्यामः।” तेन उक्तं यत् जनैः तेषाम् आचरणात् द्रष्टव्यं यत् सत्ता कियती अपि महती भवतु, सेवा एव तेषां मार्गः भविष्यति।

प्रधानमन्त्रिणा उक्तं यत् वडनगरं वाराणसी च द्वे प्राचीनं जीवन्ते च नगरे स्तः। एकं तस्य जन्मभूमिः अस्ति, अपरं कर्मभूमिः। अनयोः नगरयोः मध्ये सेवायाः एषः बृहदभियानः प्रचलति। अभियानस्य अन्तर्गतं विंशतिः दलानि दशसु राज्येषु १९३ जनपदेषु, ७७३ तहसीलेषु तथा १०१५९ ग्रामेषु गच्छन्ति। यात्रायाः कुलदूरता प्रायः ३५५७६ किलोमीटरपरिमिता अस्ति तथा ३८० रात्रिविश्रामस्थानानि निर्धारितानि सन्ति।

प्रधानमन्त्रिणा उक्तं यत् यात्रायाः अवधौ ग्रामसभाभिः, लाभार्थिभिः सामान्यनागरिकैश्च संवादः, वृक्षारोपणम्, स्वच्छताभियानम्, सांस्कृतिककार्यक्रमाः अन्याः सेवागतिविधयश्च क्रियन्ते। तेन उक्तं यत् भारते यात्रा सेवा च उभे सामाजिकसंस्कारैः सह सम्बद्धे स्तः। एतादृश्यः यात्राः करुणां, विनम्रतां, दलकार्यं अनुशासनं च शिक्षयन्ति तथा समाजेन सह सम्बद्धुं अवसरं ददति।

प्रधानमन्त्रिणा उक्तं यत् राजनीतिः निर्वाचनं च स्वस्थाने स्तः तथा शासनव्यवस्था स्वस्थाने, किन्तु सेवायात्रिणः राष्ट्रनिर्माणस्य विकसितभारतस्य च सङ्कल्पेन अग्रे गच्छन्ति। तेन उक्तं यत् २०४७ तमवर्षपर्यन्तं विकसितभारतस्य निर्माणे युवाशक्तेः महती भूमिका भविष्यति तथा युवभिः देशस्य विभिन्नक्षेत्राणां, सामाजिकवर्गाणां जनानां च आकाङ्क्षाः प्रत्यक्षरूपेण गत्वा अवगन्तुं आवश्यकम्।

तेन उक्तं यत् यात्रा युवभ्यः करुणां, विनम्रतां, दलकार्यं अनुशासनं च ज्ञातुं अवसरं ददाति। तेन यात्रिभ्यः स्वकीयान् अनुभवाः अभिलेखितुं तथा यात्रायाः अवधौ मिलितानां जनानां, तेषाम् अनुभवानां स्थानीयस्तरे दृष्टानां श्रेष्ठकार्याणां च दस्तावेजं निर्मातुं कथितम्।

प्रधानमन्त्रिणा उक्तं यत् यदा शासनस्य मूलाधारे सेवाभावना भवति तदा नीतिनिर्माणस्य केन्द्रे नागरिकाः भवन्ति। तेन निर्धनेभ्यः निःशुल्कान्नवितरणम्, आयुष्मान्भारतम्, प्रधानमन्त्रिआवासयोजना, उज्ज्वला, पीएमकिसान् तथा पीएमसूर्यघर इत्यादीनां योजनानां उल्लेखं कुर्वता उक्तं यत् सेवाभाव एव एतासां योजनानां अन्तिमपर्यन्तं जनानां समीपं प्राप्तेः प्रेरणा अस्ति। तेन उक्तम्— “सेवा परमो धर्मः, सेवा एव सर्वश्रेष्ठः धर्मः। नरसेवा नारायणसेवा, अर्थात् मानवस्य सेवा एव ईश्वरस्य सेवा अस्ति।”

प्रधानमन्त्रिणा उक्तं यत् ग्रामेषु, कृषकेषु स्थानीयसमुदायेषु च ज्ञानस्य अनुभवस्य च समृद्धः भण्डारः अस्ति। एकस्य ग्रामस्य श्रेष्ठः प्रयोगः अन्यस्य ग्रामस्य उपयोगी भवितुम् अर्हति तथा एकस्य क्षेत्रस्य अनुभवः सम्पूर्णस्य देशस्य शक्तिः भवितुम् अर्हति। तेन उक्तं यत् यात्रायाः अवधौ देशस्य विविधतायां एकतां ज्ञातुं तथा ताम् अन्येषु क्षेत्रेषु प्रसारयितुं प्रयासः करणीयः।

मोदिना उक्तं यत् सेवायात्रिणां परिश्रमः अनुभवश्च विकसितभारतस्य निर्माणयात्रायाः गतिं वर्धयिष्यति। प्रधानमन्त्री यात्रायाः निर्विघ्नतां कामयित्वा उक्तवान् यत् यथा ते अद्यावधि कार्यं कृतवन्तः, तथैव ऊर्जया अग्रे गच्छन्तु।

---------------

Hindusthan Samachar / अंशु गुप्ता