प्रधानमन्त्री अद्य मध्यप्रदेशस्य पुंजापुरे वाराणसीतः वडनगरं गच्छद्भिः सेवा-संकल्प-बाइक-यात्रिभि: सह करिष्यति आभासीयसंवादम्
मुख्यमन्त्री डॉ. यादवः पुंजापुरे बाइक-यात्रिभि: सह उपस्थितः भविष्यति भोपालम्, २४ सेप्टेम्बरमासः (हि.स.)। वाराणसीतः वडनगरं प्रति प्रचलिता ‘सेवा-संकल्प-बाइक-यात्रा’ अद्य मध्यप्रदेशस्य देवास-जनपदस्य पुंजापुरं प्राप्स्यति। अस्मिन् अवसरे प्रधानमन्त्री
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


मुख्यमन्त्री डॉ. यादवः पुंजापुरे बाइक-यात्रिभि: सह उपस्थितः भविष्यति

भोपालम्, २४ सेप्टेम्बरमासः (हि.स.)। वाराणसीतः वडनगरं प्रति प्रचलिता ‘सेवा-संकल्प-बाइक-यात्रा’ अद्य मध्यप्रदेशस्य देवास-जनपदस्य पुंजापुरं प्राप्स्यति। अस्मिन् अवसरे प्रधानमन्त्री नरेन्द्रमोदी ‘सेवा-संकल्प-बाइक-यात्रायां’ सम्मिलितैः बाइक-यात्रिकैः सह आभासीयं संवादं करिष्यति। कार्यक्रमे प्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अपि बाइक-यात्रिभि: सह उपस्थितः भविष्यति।

जनसम्पर्काधिकारी शिवमशुक्लः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः सार्वजनिकजीवनस्य २५ वर्षाणि पूर्णानि जातानि इति उपलक्ष्ये ‘सेवा-संकल्प-अभियानस्य’ अन्तर्गतं उत्तरप्रदेशस्य वाराणसीतः गुजरातस्य वडनगरपर्यन्तं विशेषा बाइक-यात्रा आयोज्यते। गत-सप्तदशे सेप्टेम्बरमासे वाराणसीतः प्रारब्धायां यात्रायां २५० बाइकेषु ५०० सेवायात्रिकाः सम्मिलिताः सन्ति। यात्रा विभिन्नराज्यानां अनेकजनपदान् ग्रामांश्च अतिक्रम्य वडनगरं प्राप्स्यति।

यात्रायाः अवधौ सेवा-जनसंवाद-राष्ट्रियैकतासम्बद्धानां सन्देशानां जनसामान्येषु प्रसारणाय विविधाः गतिविधयः अपि आयोज्यन्ते। यात्रायां विभिन्नेषु स्थानेषु प्रधानमन्त्रिण: नरेन्द्रमोदिनः सार्वजनिकजीवनसम्बद्धाः उपलब्धयश्च प्रदर्शयन्ती वाहनानि अपि सम्मिलितानि सन्ति।

जनसम्पर्काधिकारिणः अनुसारं ‘सेवा-संकल्प-बाइक-यात्रा’ अद्य देवास-जनपदस्य पुंजापुरं प्राप्स्यति। अस्मिन् अवसरे आयोज्यमाने कार्यक्रमे प्रधानमन्त्री नरेन्द्रमोदी ‘सेवा-संकल्प-बाइक-यात्रायां’ सम्मिलितैः बाइक-यात्रिभि: सह संवादं करिष्यति। कार्यक्रमे मुख्यमन्त्री डॉ. मोहनयादवः अपि सम्मिलितः भविष्यति।

कार्यक्रमे मुख्यमन्त्री डॉ. यादवः सामाजिकसुरक्षापेंशनस्य ३५.४२ लक्षं हितग्राहिभ्यः एकल-स्पर्शेन २१२.५७ कोटिरूप्यकाणाम् अधिकां राशिं अन्तरयिष्यति। अस्मिन् अवसरे उप-मुख्यमन्त्री जगदीशदेवडा, सांसदः ज्ञानेश्वरपाटिलः, विधायकौ मुरलीभंवरा तथा रायसिंहसेन्धवः इत्यादयः स्थानीय-जनप्रतिनिधयः उपस्थिताः भविष्यन्ति। कार्यक्रमे गणमान्यनागरिकैः सह बहुसंख्यकाः सामान्यजनाः अपि सहभागितां करिष्यन्ति।

Hindusthan Samachar / Divya Ranjan