Enter your Email Address to subscribe to our newsletters

रायपुरम्, २४ सितम्बरमासः (हि.स.)। छत्तीसगढस्य उपमुख्यमन्त्री अरुणसावः गुरुवासरे उक्तवान् यत् स्मृतिः ईराणी एका अतीव अनुभवी, तेजस्विनी, सक्रियतमा परिश्रमशीला च राजनीतिज्ञा अस्ति। तस्याः संगठनस्य अपि दीर्घः अनुभवः अस्ति। सा महिलामोर्चायाः राष्ट्रियाध्यक्षा अपि आसीत्। केन्द्रसर्वकारे अपि तया शिक्षाविभागस्य महिलाबालविकासविभागस्य च इत्यादीनां महत्त्वपूर्णविभागानां दायित्वं निर्वहितम् अस्ति।
सावः नवा रायपुरस्य अटलनगरकार्यालये पत्रकारैः सह वार्तालापं कुर्वन् उक्तवान् यत् राष्ट्रियमहासचिवायाः स्मृत्याः ईराण्याः दीर्घः राजनैतिकानुभवः अस्ति। सा अत्यन्तं संघर्षशीला परिश्रमशीला च नेतृ अस्ति। एतादृशस्याः अनुभव्याः परिश्रमशीलायाः संघर्षशीलायाः च नेतृरूपेण छत्तीसगढे आगमनेन प्रदेशस्य महती लाभः भविष्यति। अनेन न केवलं संगठनं सुदृढं भविष्यति, अपितु सर्वकारसञ्चालने अपि तस्याः सहकारिता मार्गदर्शनं च प्राप्स्यते।
उपमुख्यमन्त्री सावः उक्तवान् यत् स्मृती ईराण्याः सहकारिणः रूपेण सिद्धार्थशम्भुः सहप्रभारिरूपेण नियुक्तः अस्ति। उभौ मिलित्वा निश्चितरूपेण अस्माकं कृते सहायकरूपेण सिद्धौ भविष्यतः। अनेन दलस्य विस्तारः भविष्यति। संगठनं च अधिकं सुदृढं भविष्यति। वयं अधिकेन सामर्थ्येन जनसेवायै कार्यं कर्तुं शक्नुमः।
सावः काङ्ग्रेसदलस्य वक्तव्यस्य प्रत्युत्तरं ददन् उक्तवान् यत् स्मृतिः ईराणी तेषां प्रमुखतमं नेतारं राहुलगान्धिनम् अमेठीनगरे गत्वा पराजितवती अस्ति, अतः छत्तीसगढस्य काङ्ग्रेसनेतृषु भयम् अस्ति। एतस्मात् कारणात् ते निरर्थकानि वक्तव्यानि ददति। तेषां वक्तव्यैः तेषां किमपि लाभः न भविष्यति।
उपमुख्यमन्त्री सावः उक्तवान् यत् एसआइआर इत्यस्य विषये कस्यापि प्रकारस्य भ्रमे स्थातुं आवश्यकता नास्ति। एषा प्रक्रिया नियमानुसारं क्रियते। देशे प्रथमवारं सर्वेक्षणं न क्रियते। काङ्ग्रेससर्वकाराणां शासनकाले अपि एतादृशं सर्वेक्षणं कृतम् अस्ति। सर्वोच्चन्यायालयेन अपि अस्य विषये विचारं कृत्वा निर्णयः प्रदत्तः अस्ति। काङ्ग्रेसदलम् अनावश्यकतया विवादं जनयति।
Hindusthan Samachar / Dheeraj Maithani