राष्ट्रीय-सेवा-योजनायाः राज्यस्तरीयस्थापनादिवसः सम्मानसमारोहश्च अद्य, मुख्यमन्त्री सायः भविष्यति मुख्यातिथिः
रायपुरम्, २४ सेप्टेम्बरमासः (हि.स.)। छत्तीसगढशासनस्य उच्चशिक्षाविभागस्य राष्ट्रिय-सेवा-योजना-प्रकोष्ठेन अद्य गुरुवासरे राज्यस्तरीयस्थापनादिवसस्य सम्मानसमारोहस्य च आयोजनं करिष्यते। कार्यक्रमः मध्याह्ने १२ वादने रायपुरे पण्डितदीनदयालोपाध्याय-सभागारे
मुख्यमंत्री विष्णु देव साय फाइल फाेटाे


रायपुरम्, २४ सेप्टेम्बरमासः (हि.स.)। छत्तीसगढशासनस्य उच्चशिक्षाविभागस्य राष्ट्रिय-सेवा-योजना-प्रकोष्ठेन अद्य गुरुवासरे राज्यस्तरीयस्थापनादिवसस्य सम्मानसमारोहस्य च आयोजनं करिष्यते। कार्यक्रमः मध्याह्ने १२ वादने रायपुरे पण्डितदीनदयालोपाध्याय-सभागारे आयोजयिष्यते।

समारोहस्य मुख्यातिथिः मुख्यमन्त्री विष्णुदेवसायः भविष्यति। कार्यक्रमस्य अध्यक्षतां उच्चशिक्षा, राजस्व, आपद्व्यव-स्थापनं पुनर्वासं च मन्त्री टङ्करामवर्मा करिष्यति।

समारोहे रायपुरलोकसभासदस्यः बृज-मोहन-अग्रवालः, रायपुरपश्चिमविधान-सभाक्षेत्रस्य विधायकः राजेशमूणतः तथा राष्ट्रिय-सेवा-योजना-क्षेत्रीयनिदेशा-लयस्य, भोपालस्य उपकार्यक्रम-परामर्शदाता क्षेत्रीयनिदेशकश्च डॉ. अशोककुमारश्रोती विशिष्टातिथिरूपेण सम्मिलिताः भविष्यन्ति।

कार्यक्रमे प्रदेशस्य विभिन्नेभ्यः भागेभ्यः राष्ट्रिय-सेवा-योजनायाः स्वयंसेवकाः, कार्यक्रमाधिकारिणः विभागीयाधिका-रिणश्च सहभागीभविष्यन्ति। अस्मिन् अवसरे राष्ट्रिय-सेवा-योजनायाः अन्त-र्गतम् उत्कृष्टकार्यं कृतवद्भ्यः स्वयंसेवकेभ्यः, कार्यक्रमाधिकारिभ्यः संस्थानेभ्यश्च सम्मानं प्रदास्यते।

Hindusthan Samachar / Divya Ranjan