बिहारग्रामीणबैङ्केन स्वयं सहायसमूहेभ्यः एककोटिरूप्यकाणाम् ऋणराशिः प्रदत्ता
सिसवां, २४ सितम्बरमासः (हि.स.)। आर्थिकरूपेण दुर्बलपरिवाराणां महिलाः स्वावलम्बिन्यः भवन्तु इति दिशि बिहारग्रामीणबैङ्कस्य सिसवां शाखया महत्त्वपूर्णः उपक्रमः कृतः। शाखायाः पक्षतः गुरुवासरे स्वयं सहायसमूहेभ्यः सम्बद्धाभ्यः महिलाभ्यः प्रायः एककोटिरूप्यक
राशि ग्रहण करती महिलाएं


सिसवां, २४ सितम्बरमासः (हि.स.)। आर्थिकरूपेण दुर्बलपरिवाराणां महिलाः स्वावलम्बिन्यः भवन्तु इति दिशि बिहारग्रामीणबैङ्कस्य सिसवां शाखया महत्त्वपूर्णः उपक्रमः कृतः। शाखायाः पक्षतः गुरुवासरे स्वयं सहायसमूहेभ्यः सम्बद्धाभ्यः महिलाभ्यः प्रायः एककोटिरूप्यकाणां ऋणराशिः प्रदत्ता। ऋणराशेः प्राप्तेः अनन्तरं महिलासु स्वव्यवसायस्य आरम्भं कृत्वा पारिवारिकस्थितिं सुदृढां कर्तुं उत्साहः दृश्यते स्म।

कार्यक्रमे बैङ्कस्य शाखाप्रबन्धकः राजेशकुमारः स्वयं सहायसमूहानां महिलाः सम्बोधयन् अवदत् यत् बैङ्कस्य पक्षतः प्रदीयमाना ऋणराशिः कस्यापि प्रकारस्य दानराशिः नास्ति। इयं महिलानां स्वपादयोः स्थातुं स्वरोजगारेण च आर्थिकरूपेण सुदृढाः भवितुं प्रदीयते। सः महिलाभ्यः ऋणराशेः सदुपयोगं कर्तुं तथा समये बैङ्कस्य ऋणराशिं प्रत्यर्पयितुं च आग्रहं कृतवान्।

सः अवदत् यत् परिश्रमेण निष्ठया च कृतः कश्चिदपि व्यवसायः लघुः न भवति। महिलाः स्वाभिरुच्यनुसारं स्थानीयावश्यकतानुसारं च लघुव्यवसायेन आरम्भं कर्तुं शक्नुवन्ति। यदि व्यवसाये सत्यनिष्ठया परिश्रमेण च कार्यं क्रियते तर्हि शनैः शनैः आयः वर्धयितुं शक्यते। अनेन न केवलं परिवारस्य आर्थिकस्थितिः सुदृढा भविष्यति, अपि तु महिलाभ्यः समाजे स्वावलम्बिन्यः इति विशिष्टा परिचितिरपि प्राप्स्यते।

शाखाप्रबन्धकः महिलाः प्रोत्साहयन् अवदत् यत् स्वयं सहायसमूहानां माध्यमेन ग्रामीणमहिलानां जीवने परिवर्तनं दृश्यते। अनेकेषां महिलानां समूहस्य माध्यमेन बैङ्कतः ऋणं गृहीत्वा स्वव्यवसायः आरब्धः तथा अधुना ताः आर्थिकरूपेण स्वावलम्बिन्यः सन्ति।

सः उदाहरणं दत्त्वा अवदत् यत् क्षेत्रस्य अनेका महिलाः स्वव्यवसायं अग्रे वर्धयित्वा वाहनानि अपि क्रेतुं समर्थाः अभवन्। एतत् तासाम् आर्थिकविकासस्य स्वावलम्बनस्य च दिशि महत्त्वपूर्णा उपलब्धिः अस्ति।

सः अवदत् यत् स्वयं सहायसमूहाः केवलं ऋणग्रहणस्य माध्यमं न सन्ति, अपि तु महिलाः परस्परं संयोज्य सामूहिकरूपेण अग्रे वर्धितुं अवसरमपि प्रददति। नियमितसञ्चयेन, बैङ्केन सह सम्पर्कं स्थापयित्वा तथा ऋणस्य सम्यक् उपयोगेन महिलाः परिवारस्य आयं वर्धयितुं महत्त्वपूर्णां भूमिकां निर्वोढुं शक्नुवन्ति।

वित्तकोषस्य पक्षतः एककोटिरूप्यकाणां ऋणराशेः प्रदानेन स्वयं सहायसमूहानां महिलासु विशेषः उत्साहः आसीत्। महिलाभिः उक्तं यत् बैङ्कतः प्राप्तेन ऋणेन ताः जीविकाः आरम्भं कर्तुं तथा पूर्वतः सञ्चालितस्य व्यवसायस्य विस्तारं कर्तुं समर्थाः भविष्यन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani