Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 24 सितंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे एक्स इत्यत्र सहकृते सुभाषिते समाजे शान्तेः सद्भावस्य च प्रवर्धनाय वाण्यां संयमस्य अभ्यासस्य महत्त्वं प्रतिपादितवान्।
प्रधानमन्त्री मोदी एक्स इत्यत्र संस्कृतस्य एकं श्लोकं सहकृत्य लिखितवान्—
“अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते॥”
अस्य श्लोकस्य अर्थः अस्ति यत् अस्माभिः सर्वदा सत्याः, मधुराः, हितकराः च शब्दाः वक्तव्याः, येन कस्यचित् मनसि अशान्तिः न उत्पद्येत। पवित्रज्ञानस्य निरन्तरं अध्ययनं चिन्तनं च वाणीं उदात्तां सार्थकां च करोति। विचारपूर्वकं उक्तानि वचनानि समाजे शान्तिं, सद्भावं सकारात्मकतां च प्रसारयन्ति।
---------------
Hindusthan Samachar / अंशु गुप्ता