Enter your Email Address to subscribe to our newsletters

बाबामहाकालस्य जयघोषैः मन्दिरपरिसरः गुञ्जितः
उज्जयिनी, २४ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिनी-स्थिते विश्वप्रसिद्धे श्रीमहाकालेश्वरमन्दिरे गुरुवासरे प्रातः भस्मारार्तिक्या: समये बाबा महाकालस्य विशेषं राजस्वरूपेण शृङ्गारं कृतम्। रजतमुकुटेन, त्रिपुण्ड्रेण, रजतचन्द्रेण, रुद्राक्षमालया सुगन्धितपुष्पमालाभिश्च अलङ्कृतस्य बाबा महाकालस्य दर्शनार्थं बहुसङ्ख्याकाः श्रद्धालवः समागताः। भस्मार्पणानन्तरं भगवानः साकारस्वरूपेण दर्शनं दत्तवान्, तदा मन्दिरपरिसरः बाबा महाकालस्य जयघोषैः गुञ्जितः।
गुरुवासरे प्रातः चतुर्वादने मन्दिरस्य कपाटोद्घाटनानन्तरं पण्डितैः पुजारीभिश्च गर्भगृहे प्रतिष्ठितानां देवीदेवतानां पूजनं कृतम्। भगवत: महाकालस्य जलाभिषेकानन्तरं दुग्धेन, दध्ना, घृतेन, मधुना, शर्करया फलरसैश्च निर्मितेन पञ्चामृतेन अभिषेकपूजनं कृतम्। प्रथमघण्टालवादनानन्तरं हरिओम इति उच्चारयन् जलम् अर्पितम् तथा मन्त्रघोषस्य मध्ये भगवानः ध्यातः।
तदनन्तरं कर्पूरारार्तिकी अभवत्। भगवत: महाकालस्य मस्तके रजतचन्द्रः, भाङ्गः चन्दनं च लेपितम्। त्रिपुण्ड्रं, रजतमुकुटं गुलाबपुष्पमालां च समर्प्य आकर्षकः शृङ्गारः कृतः। भस्मारतेः परम्परानुसारं ज्योतिर्लिङ्गं वस्त्रेण आच्छाद्य भस्म लेपितम्। महामनिर्वाणी-अखाडा इत्यस्य पक्षतः भगवत: महाकालाय भस्म समर्पितम्।
रजताभरणैः पुष्पमालाभिश्च अलङ्करणम्
भस्मार्पणानन्तरं बाबा महाकालस्य राजस्वरूपेण विशेषः शृङ्गारः कृतः। शेषनागस्य रजतमुकुटं, रजतमुण्डमाला, रुद्राक्षमाला सुगन्धितपुष्पमालाश्च समर्पिताः। भाङ्गेन, चन्दनेन, आभरणैः गुलाबपुष्पैश्च भगवान् अलङ्कृतः। तदनन्तरं फलानि मिष्टान्नानि च नैवेद्यरूपेण समर्पितानि।
नन्दिनः कर्णे कथिता मनोकामना
भस्मारत्यां बहुसङ्ख्याकाः श्रद्धालवः बाबा महाकालस्य दर्शनं कृतवन्तः। श्रद्धालवः नन्दिमहाराजस्य दर्शनं कृत्वा तस्य कर्णे स्वकीयां मनोकामनां निवेद्य भगवन्तम् आशीर्वादाय प्रार्थितवन्तः। अस्मिन् अवसरे मन्दिरपरिसरे निरन्तरं बाबा महाकालस्य जयघोषाः गुञ्जितवन्तः। धार्मिक-मान्यतानुसारं भस्मार्पणानन्तरं भगवान् महाकालः निराकारस्वरूपात् साकार-स्वरूपेण भक्तेभ्यः दर्शनं ददाति। अस्य विशेषदर्शनस्य कृते भस्मारार्तिक्यांं सम्मिलितेषु श्रद्धालुषु विशेषः उत्साहः दृष्टः।
Hindusthan Samachar / Divya Ranjan