Enter your Email Address to subscribe to our newsletters

बालानां शिक्षायै लेखनसामग्रीदानम्
रायपुरम्, २४ सितम्बरमासः (हि.स.)। सेवासङ्कल्पाभियानस्य अन्तर्गतं रायपुरजनपदे सेवया सामाजिकसहभागितया च सम्बद्धानि षट् विभिन्नानि सेवाभियानानि आयोजितानि।
अस्यैव क्रमस्य अन्तर्गतं गुरुवासरे आयोजिते ‘लेखनसामग्रीदानाभियाने’ नागरिकैः आवश्यकताग्रस्तबालानां शिक्षायै सेवायाः अनुकरणीयम् उदाहरणं प्रस्तुतम्। अभियाने ११८ नागरिकाः सहभागितां कृत्वा लेखनसामग्रीं दत्तवन्तः।
प्रमुखसचिवा निहारिका बारिक् तथा जिलाधीशः डॉ. गौरवसिंहः अपि लेखनसामग्रीं दत्त्वा अभियाने सहभागितां कृतवन्तौ।
एतावती सामग्री एकत्रिता
अभियाने ४९८ लेखनपुस्तिकाः, ५०२ लेखन्यः, ३५० रबरयुक्ताः पेन्सिलाः, ३७५ रबररहिताः पेन्सिलाः, ३२० मोमवर्णिकाः, १५० चित्रलेखन्यः, २१५ मापिकाः, २३ लेखनीपुटकानि, ११ परिकरपेटिकाः, ५५ लेपपुटकानि, ३ विद्यालयपुटकानि, ६ भोजनपात्राणि तथा ५ जलपात्राणि च एकत्रितानि।
एकत्रितां लेखनसामग्रीं आवश्यकताग्रस्तेभ्यः वञ्चितेभ्यश्च बालकेभ्यः वितरिष्यते। तेन आर्थिकपरिस्थितयः तेषां शिक्षायाः मार्गे बाधकाः न भवन्तु, इति उद्देश्येन एषः उपक्रमः क्रियते।
Hindusthan Samachar / Dheeraj Maithani