टिहरीसरोवरम् अन्ताराष्ट्रियपर्यटनगन्तव्यरूपेण विकसितुं मुख्ययोजनायाः सज्जता
देहरादून, २४ सेप्टेम्बरमासः (हि.स.)। उत्तराखण्डस्य मुख्यसचिवः आनन्दबर्द्धनः टिहरीसरोवरं अन्ताराष्ट्रियपर्यटनगन्तव्य-रूपेण विकसितुं प्रायः अष्टसहस्रहेक्टर-परिमितस्य क्षेत्रस्य समग्र-मास्टरप्लान इत्यस्य क्षेत्रीययोजनायाश्च निर्माणाय निर्देशान् दत्तवा
मुख्य सचिव आनंद बर्द्धन गुरुवार   को सचिवालय में बैठक  करते।


देहरादून, २४ सेप्टेम्बरमासः (हि.स.)। उत्तराखण्डस्य मुख्यसचिवः आनन्दबर्द्धनः टिहरीसरोवरं अन्ताराष्ट्रियपर्यटनगन्तव्य-रूपेण विकसितुं प्रायः अष्टसहस्रहेक्टर-परिमितस्य क्षेत्रस्य समग्र-मास्टरप्लान इत्यस्य क्षेत्रीययोजनायाश्च निर्माणाय निर्देशान् दत्तवान्। तेन उक्तं यत् सरोवरक्षेत्रे अव्यवस्थितविकासं निवारयितुं सह वर्षपर्यन्तं पर्यटनक्रियाकलापानां सञ्चा-लनाय कार्ययोजना सज्जीकरणीया।

मुख्यसचिवः गुरुवासरे सचिवालये पर्यटनविभागस्य अधिकारिभिः सह आयोजितायां सभायां उक्तवान् यत् टिहरीसरोवरक्षेत्रं ‘एकं राज्यं, एकं वैश्विकपर्यटनगन्तव्यं’ इति अवधारणायाः अन्तर्गतं विकसितव्यम्। मास्टरप्लान इत्यस्मिन् सर्वकारीयां निजीञ्च भूमिं सम्मिलितां कृत्वा क्षेत्रस्य भौगोलिक-परिस्थितिनां, स्थानीयानाम् आवश्यक-तानां, पर्यावरणीयसंवेदन-शीलतायाः तथा पर्यटनसम्भावनानां च ध्यानं दातव्यम्।

तेन मास्टरप्लान इत्यस्य निर्माणात् पूर्वं सर्वैः सम्बद्धैः पक्षैः सह विचारविमर्शस्य निर्देशाः दत्ताः। तेन नवदिल्लीस्थात् प्लानिङ्ग-आर्किटेक्चर-विद्यालयात् तथा भोपालस्थात् प्लानिङ्ग-आर्किटेक्चर-विद्यालयात् च तान्त्रिकसहयोगं प्राप्तुं सम्भावनानां विषये विचारं कर्तुम् अपि उक्तम्।

मुख्यसचिवः उक्तवान् यत् टिहरीसरोवरक्षेत्रे विभिन्नपर्यटनक्रियाकलापानां समन्वयं कृत्वा प्रमुखाकर्षणकेन्द्राणि विकसित-व्यानि। अस्य कृते चरणबद्धा योजना निर्मातव्या, येन पर्यटकाः न्यूनातिन्यूनम् एकं द्वौ वा दिवसौ अथवा ततोऽपि अधिकं कालं क्षेत्रे निवासं कर्तुं शक्नुयुः। जलक्रीडाभिः सह साहसिक-पर्यटनम्, पदभ्रमणम्, प्रकृतिपर्यटनम्, संस्कृति-पर्यटनं तथा ग्रामीणपर्यटनं समन्वितरूपेण विकसितुं बलं दत्तम्।

तेन अप्रैलतः जूनपर्यन्तं जलस्तरस्य न्यूनतायाम् अपि पर्यटनक्रियाकलापानां सञ्चालनं निरन्तरं भवेत् इति विशेषकार्ययोजनां निर्मातुं निर्देशः दत्तः। ऋतोः जलस्तरस्य च अनुरूपं वर्षपर्यन्तं क्रियाकलापानां पञ्चाङ्गं निर्मातुं तथा नवीनानां पदभ्रमणमार्गाणां पथानां च विकासं कर्तुम् अपि निर्देशाः दत्ताः।

मुख्यसचिवः समीपस्थानि ग्रामाणि पर्यटनक्रियाकलापैः सह सम्बद्धुं बलं दत्त्वा उक्तवान् यत् ग्रामपर्यटनस्य सांस्कृतिक-पर्यटनस्य च माध्यमेन पर्यटकान् स्थानीयसंस्कृत्या, परम्पराभिः, खाद्यप्रकारैः तथा ग्रामीणजीवनेन परिचितान् कर्तुं शक्यते। अनेन स्थानीय-स्तरे रोजगारस्य स्वरोजगारस्य च अवसराः अपि वर्धिष्यन्ते।

तेन टिहरीसरोवरं वैश्विकपर्यटन-गन्तव्यरूपेण विकसितुं समग्रकार्य-योजनायाः प्रस्तावित-क्रियाकलापानां च विषये विस्तृतप्रस्तुतिं सज्जीकर्तुं निर्देशः दत्तः, या प्रधानमन्त्रिणः समक्षं प्रस्तोतुं शक्येत। आगामीसभायां टीएचडीसी-संस्थायाः अधिकारिणः अपि आमन्त्रयितुं निर्देशः दत्तः।

Hindusthan Samachar / Divya Ranjan