पर्वतारोहिणां साहसं शौर्यम् अनुशासनं दलभावना च युवभ्यः प्रेरणादायिनी – मुख्यमन्त्री धामी
देहरादून, २४ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामी गुरुवासरे मुख्यमन्त्रिणः शिविरकार्यालये नेहरू-पर्वतारोहण-संस्थानम् उत्तरकाशी इत्यस्य चतुर् सफलपर्वतारोहणाभियानानां ध्वजा-वर्तनं कृतवान्। एतेषु जवाहर-पर्वतारोहण-शीतकालीन-क्रीडासंस्थाने
मुख्यमंत्री पुष्कर सिंह धामी नेहरू पर्वतारोहण संस्थान के सफल पर्वतारोहण अभियानों के दलों के फ्लैग-इन कार्यक्रम में प्रतिभाग करते हुए।


देहरादून, २४ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामी गुरुवासरे मुख्यमन्त्रिणः शिविरकार्यालये नेहरू-पर्वतारोहण-संस्थानम् उत्तरकाशी इत्यस्य चतुर् सफलपर्वतारोहणाभियानानां ध्वजा-वर्तनं कृतवान्। एतेषु जवाहर-पर्वतारोहण-शीतकालीन-क्रीडासंस्थानेन पहलगामेन सह संयुक्तरूपेण सञ्चालितम् माउण्ट् एकाङ्कागुआ-अभियानम् अपि सम्मिलितम् अस्ति।

मुख्यमन्त्री सर्वेभ्यः पर्वतारोहिभ्यः सफलाभियानानां कृते शुभकामनाः प्रदाय समस्यापूर्णासु उच्चपर्वतीयपरिस्थितिषु तेषां साहसस्य, अनुशासनस्य, तान्त्रिक-दक्षतायाः तथा दलभावनायाः प्रशंसां कृतवान्। तेन उक्तं यत् पर्वतारोहिणाम् उपलब्धयः उत्तराखण्डसहितं देशस्य युवजनान् साहसिकक्रियाकलापैः सह सम्बद्धुं प्रेरयिष्यन्ति।

तेन उक्तं यत् नेहरू-पर्वतारोहण-संस्थानेन पर्वतारोहणस्य, साहसिकक्रीडाणां, युवविकासस्य तथा उच्चहिमालयीय-प्रशिक्षणस्य क्षेत्रे महत्त्वपूर्णा ख्यातिः प्राप्ता अस्ति। संस्थानं युवभ्यः पर्वतारोहणस्य साहसिकक्रियाकलापानां च उच्चस्तरीयं प्रशिक्षणं प्रदानेन सह तेषु नेतृत्वगुणान्, अनुशासनं तथा कठिनपरिस्थितीनां सम्मुखीकरणस्य क्षमतां च विकसितं करोति।

अर्जेन्टिनादेशे स्थितस्य षड्सहस्रनवशत-एकषष्टिमीटर्-उच्चतायुक्तस्य माउण्ट् एकाङ्कागुआ-पर्वतस्य कृते नेहरू-पर्वतारोहण-संस्थानेन जवाहर-पर्वता-रोहण-शीतकालीन-क्रीडासंस्थानेन च संयुक्ताभियानं कर्नल हेमचन्द्रसिंहस्य नेतृत्वे सञ्चालितम्। षड्सदस्यीयेन दलेन २२ फेब्रुअरीमासे शिखरस्य सफलतया आरोहणं कृतम्। अस्य अभियानस्य प्रस्थानं रक्षामन्त्रिणा राजनाथसिंहेन नवदिल्लीस्थात् दक्षिणप्रखण्डात् ध्वजं प्रदर्श्य कारितम् आसीत्।

नेहरू-पर्वतारोहण-संस्थानस्य नुन्-कुन-अभियानम्-२०२६ इत्यस्य नेतृत्वं संस्थानस्य प्रधानाचार्येण कर्नल एस. एस. राजपुरोहितेन कृतम्। अभियानदलेन १५ अगस्तमासे सप्तसहस्रसप्तसप्ततिमीटर-उच्चतायुक्तस्य माउण्ट कुन-शिखरस्य सफलतया आरोहणं कृतम्। ततः २६ अगस्तमासे पञ्चसहस्रनवशताष्टमीटर-उच्चतायुक्तस्य माउण्ट् डेल्टा-४१ इत्यस्य तथा ३१ अगस्तमासे सप्तसहस्रैकशतम् पञ्चत्रिंशन्मीटर-उच्चतायुक्तस्य माउण्ट् नुन-शिखरस्य च सफलतया आरोहणं कृतम्। एवं दलेन एकस्मिन्नेव अभियाने नुन-कुन-पर्वतशृङ्खलायाः त्रयाणां शिखराणां सफलतया आरोहणस्य उपलब्धिः प्राप्ता।

मुख्यमन्त्री धामी उक्तवान् यत् उत्तराखण्डस्य भौगोलिकपरिस्थितयः पर्वतारोहणस्य साहसिकपर्यटनस्य च क्षेत्रे व्यापकाः सम्भावनाः प्रददति। एतादृश्यः उपलब्धयः युवजनान् साहसिकक्रीडाभ्यः प्रेरणया सह उत्तराखण्डस्य परिचयं राष्ट्रियस्तरे अन्ताराष्ट्रियस्तरे च सुदृढं कुर्वन्ति।

अस्मिन् अवसरे विशेषप्रमुखसचिवः क्रीडायुवा-कल्याणविभागस्य अमित-कुमारसिन्हा, नेहरू-पर्वतारोहण-संस्थानस्य प्रधानाचार्यः कर्नल एस. एस. राजपुरोहितः, जवाहर-पर्वतारोहण-शीत-कालीन-क्रीडासंस्थानस्य पहल-गामस्य प्रधानाचार्यः कर्नल हेमचन्द्रसिंहः, कैप्टन जी. सन्तोषकुमारेण सह अधिकारिणः विभिन्नपर्वतारोहणाभि-यानानां सदस्याश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan