Enter your Email Address to subscribe to our newsletters


यमुना एक्स्प्रेसमार्गे शय्यायानस्य बसयानस्य अग्निदुर्घटनया नव यात्रिकाणां मृत्युः, आरक्षिदलेन उद्धारदलैश्च त्रिंशत् यात्रिकाः सुरक्षिताः बहिः निष्कासिताः
लखनऊ, २४ सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः ग्रेटरनोएडानगरस्य यमुनाएक्स्प्रेसमार्गे शय्यायानस्य बसयाने अग्निलागनस्य घटनां ज्ञात्वा मृतकानां परिजनेभ्यः द्वि-द्विलक्षरूप्यकाणि, घायतेभ्यश्च पञ्चाशत्-पञ्चाशत् सहस्ररूप्यकाणि आर्थिकसाहाय्यं दातुं घोषणां कृतवान्। मुख्यमन्त्रिणा दुर्घटनायाः विषये शोकः प्रकटितः। तेन अधिकारिभ्यः घातितानां समुचितचिकित्सां तथा सर्वसम्भवचिकित्सासुविधां प्रदातुं निर्देशाः प्रदत्ताः। सः मृतकानां परिजनैः सह सम्भाषणं कृत्वा साहाय्यस्य आश्वासनं दत्तवान् तथा घातितानां शीघ्रस्वास्थ्यलाभस्य कामनां कृतवान्।
ग्रेटरनोडानगरे बुधवासरस्य अर्धरात्रे जेवरक्षेत्रे दयानतपुरग्रामस्य समीपे देहलीतः महोबां प्रति गच्छत्यां शय्यायानबसयाने सहसा अग्निः प्रज्वलिता। अग्निः तावत् शीघ्रं प्रसृता यत् केचन यात्रिकाः बसयानस्य अन्तः एव बद्धाः अभवन्। आरक्षिदलेन उद्धारदलेन च प्रायः त्रिंशत् यात्रिकाः सुरक्षितरूपेण बहिः निष्कासिताः। दुर्घटनायां नव यात्रिकाणां मृत्युः अभवत्। मृतकेषु एका महिला अपि सम्मिलिता अस्ति। घातिताः कैलाशचिकित्सालये प्रवेशिताः सन्ति।
उल्लेखनीयं यत् राजकल्पना ट्रैवल्स इत्यस्य इयं बस इति कथ्यते। तस्याः पञ्जीकरणसङ्ख्या बीआर ३२ पीए ८६४७ इति अस्ति। बसयाने प्रायः पञ्चत्रिंशत् यात्रिकाः आसन्। रात्रौ प्रायः द्वादशवादने अग्निः प्रज्वलिते सति बसयानस्य अन्तः धूमः पूर्णतया व्याप्तः अभवत् तथा च उन्नताः अग्निज्वालाः दृश्यन्ते स्म। चालकः बसयानं द्रुतमार्गस्य पार्श्वे स्थापितवान्। ततः अनेकाः यात्रिकाः वातायनैः आपत्कालीननिर्गममार्गेण च बहिः निर्गत्य स्वप्राणान् अरक्षन्, किन्तु केचन यात्रिकाः अग्नेः प्रभावेन मृताः।
सूचना प्राप्तमात्रेण आरक्षिदलं, अग्निशमनविभागस्य दलं तथा यमुनाएक्स्प्रेसमार्गस्य निजी सुरक्षादलं घटनास्थलं प्राप्तवन्तः। राहतकार्यं उद्धारकार्यं च कुर्वद्भिः दलैः अग्नेः नियन्त्रणं कृत्वा बसयानस्य परीक्षणं कृतम् तथा च अन्तः बद्धान् यात्रिकान् बहिः निष्कासितवन्तः। घातिताः तत्कालमेव चिकित्सालयं प्रेषिताः।
दुर्घटनायाः कारणेन जेवरटोलस्थानस्य फलैदाकट् इत्यस्य समीपे च अर्धघण्टात् अधिककालपर्यन्तं यातायातः स्थगितः आसीत्। राहतकार्यं उद्धारकार्यं च पूर्णं जातस्य अनन्तरं द्रुतमार्गे यातायातः पुनः प्रवर्तितः।
बसयाने अग्निः केन कारणेन प्रज्वलिता इति विषये अन्वेषणं क्रियमाणम् अस्ति। आरक्षिविभागः प्रशासनं च एतत् ज्ञातुं प्रयत्नेते यत् बसयानस्य कस्मिन् भागे अग्निः प्रारब्धा तथा च सा कथं तावत् शीघ्रं प्रसृता।
Hindusthan Samachar / Dheeraj Maithani